Book Title: Shodshaka Prakaranam
Author(s): Haribhadrasuri, Buddhisagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीषो. १४
Jain Education In
करणं । योगिनां कुले यज्जन्म तस्य बाधकमनेन योगिकुलजन्मापि जन्मान्तरे न लभ्यत इति कृत्वा योगिकुलजन्मबाधकमलमत्यर्थमेतत्तद्विदामिष्टं योगविदामभिमतम् ॥ ५ ॥
उ० उद्वेग इत्यादि । उद्वेगे चित्तदोषे जाते विद्वेषाद्योगविषयादस्य योगस्य कथञ्चित्करणं विष्ठिसमं राजविष्ठिकल्पं पापेन एतच्चैवंविधं करणं योगिनां कुले यज्जन्म तस्य बाधकम् । उद्विग्नः क्रियाकर्ता योगिकुलं जन्मान्तरे न लभत इति कृत्वाऽलमत्यर्थं तद्विदां योगविदामिष्टमभिमतम् ॥ ५ ॥
क्षेपेऽपि चाप्रबन्धादिष्टफलसमृद्धये न जावेतत् । नासकृदुत्पाटनतः शालिरपि फलावहः पुंसः ॥ ६ ॥
० क्षेपेऽपि च चित्तदोषेऽप्रबन्धात्प्रबन्धत्वाभावाच्चित्तस्य इष्टफलसमृद्धये विवक्षितफलसमृद्ध्यर्थं योगनिष्पत्तये न जातु कदाचित्करणं चित्तं वा भवति । किमित्यन्यत्रान्यत्र चित्तप्रेक्षेपे फलसमृद्धिर्न भवतीत्याह । नासकृदनेकशः । उत्पाटनादुत्खननाच्छालिरपि धान्यविशेषः फलावहः फलसंयुक्तः पुंसः पुरुषस्य यतो भवति ॥ ६ ॥
उ० क्षेपेऽपि चेत्यादि । क्षेपेऽपि चित्तदोषेऽप्रवन्धाच्चित्तस्य शिथिलमूलत्वादिष्टफलस्य योगनिष्पत्तिरूपस्य समृद्धयेऽभ्युदयाय न जातु कदाचिदेतत्करणं भवति । अत्र दृष्टान्तमाह । न असकृदनेकश उत्पादनात् उत्खननाच्छालिरपि धान्य| विशेषः फलावहः फलप्रदः पुंसः पुरुषस्य भवति ॥ ६॥
उत्थाने निर्वेदात्करणमकरणोदयं सदैवास्य । अत्यागत्यागोचितमेतत्तु खसमयेऽपि मतम् ॥ ७ ॥ ० उत्थाने चित्तदोषे सत्यप्रशान्तवाहितायां निर्व्वेदाद्धेतोः करणं निष्पादनमकरणोदयं भाविकालमाश्रित्याकरणस्यै
For Private & Personal Use Only
jainelibrary.org

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230