Book Title: Shodshaka Prakaranam
Author(s): Haribhadrasuri, Buddhisagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 222
________________ श्रीषो डश प्रकरणम् ॥१०४॥ Jain Education International गुरुविनयः स्वाध्यायो योगाभ्यासः परार्थकरणं च । इतिकर्त्तव्यतया सह विज्ञेया साधुचेष्टा ॥ १ ॥ औचित्यागुरुवृत्तिर्वहुमानस्तत्कृतज्ञताचित्तम् । आज्ञायोगस्तत्सत्यकरणता चेति गुरुविनयः ॥ २ ॥ यत्तु खलु वाचनादेरासेवनमत्र भवति विधिपूर्वम् । धर्मकथान्तं क्रमशस्तत्स्वाध्यायो विनिर्दिष्टः ॥ ३ ॥ स्थानोर्णार्थालम्बनतदन्ययोगपरिभावनं सम्यक् । परतत्त्वयोजनमलं योगाभ्यास इति तत्त्वविदः ॥ ४ ॥ विहितानुष्ठानपरस्य तत्त्वतो योगशुद्धिसचिवस्य । भिक्षाटनादि सर्व्वे परार्थकरणं यतेर्ज्ञेयम् ॥ ५ ॥ सर्वत्रानाकुलता यतिभावाव्ययपरा समासेन । कालादिग्रहणविधौ क्रियेतिकर्त्तव्यता भवति ॥ ६ ॥ इति चेष्टावत उच्चैर्विशुद्धभावस्य सद्यतेः क्षिप्रम् | मैत्री करुणामुदितोपेक्षाः किल सिद्धिमुपयान्ति ॥ ७ ॥ एताश्चतुर्विधाः खलु भवन्ति सामान्यतश्चतस्रोऽपि । एतद्भावपरिणतावन्ते मुक्तिर्न तत्रैताः ॥ ८ ॥ उपकारिखजनेतरसामान्यगता चतुर्विधा मैत्री | मोहासुखसंवेगान्यहितयुता चैव करुणेति ॥ ९ ॥ सुखमात्रे सद्धेतावनुबन्धयुते परे च मुदिता तु । करुणानुबन्धनिर्वेदतत्त्वसारा धुपेक्षेति ॥ १० ॥ एताः खल्वभ्यासाक्रमेण वचनानुसारिणां पुंसाम् । सद्वृत्तानां सततं श्राद्धानां परिणमन्त्युच्चैः ॥ ११ ॥ एतद्रहितं तु तथा तत्त्वाभ्यासात्परार्थकार्येव । सद्बोधमात्रमेव हि चित्तं निष्पन्नयोगानाम् ॥ १२ ॥ अभ्यासोऽपि प्रायः प्रभूतजन्मानुगो भवति शुद्धः । कुलयोग्यादीनामिह तन्मूलाधानयुक्तानाम् ॥ १३ ॥ For Private & Personal Use Only मूलम्. ॥१०४॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230