Book Title: Shodshaka Prakaranam
Author(s): Haribhadrasuri, Buddhisagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 225
________________ सामर्थ्ययोगतो या तत्र दिदृक्षेत्यसङ्गशक्त्याढ्या । सानालम्बनयोगः प्रोक्तस्तदर्शनं यावत् ॥ ८॥ तत्राप्रतिष्ठितोऽयं यतः प्रवृत्तश्च तत्त्वतस्तत्र । सर्वोत्तमानुजः खलु तेनानालम्बनो गीतः॥९॥ द्रागस्मात्तद्दर्शनमिषुपातज्ञातमात्रतो ज्ञेयम् । एतच्च केवलं तज्ज्ञानं यत्तत्परं ज्योतिः॥ १०॥ आत्मस्थं त्रैलोक्यप्रकाशकं निष्क्रियं परानन्दम् । तीतादिपरिच्छेदकमलं ध्रुवं चेति समयज्ञाः ॥११॥ एतद्योगफलं तत्परापरं दृश्यते परमनेन । तत्तत्त्वं यदृष्ट्वा निवर्तते दर्शनाकाङ्क्षा ॥ १२॥ तनुकरणादिविरहितं तचाचिन्त्यगुणसमुदयं सूक्ष्मम् । त्रैलोक्यमस्तकस्थं निवृत्तजन्मादिसक्लेशम् ॥ १३॥ ज्योतिः परं परस्तात्तमसो यद्गीयते महामुनिभिः । आदित्यवर्णममलं ब्रह्माद्यैरक्षरं ब्रह्म ॥१४॥ नित्यं प्रकृतिवियुक्तं लोकालोकावलोकनाभोगम् । स्तिमिततरङ्गोदधिसममवर्णमस्पर्शमगुरुलघु ॥ १५ ॥ सर्वावाधारहितं परमानन्दसुखसङ्गतमसङ्गम् । निःशेषकलातीतं सदाशिवाद्यादिपदवाच्यम् ॥ १६ ॥१५॥ एतदृष्ट्वा तत्त्वं परममनेनैव समरसापत्तिः । सञ्जायतेऽस्य परमा परमानन्द इति यामाहुः ॥१॥ सैपाऽविद्यारहितावस्थापरमात्मशब्दवाच्येति । एषैव च विज्ञेया रागादिविवर्जिता तथता ॥२॥ वैशेषिकगुणरहितः पुरुषोऽस्यामेव भवति तत्त्वेन । विध्यातदीपकल्पस्य हन्त जात्यन्तराप्राप्तः ॥३॥ एवं पशुत्वविगमो दुःखान्तो भूतविगम इत्यादि । अन्यदपि तन्त्रसिद्धं सर्वमवस्थान्तरेऽत्रैव ॥४॥ lain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 223 224 225 226 227 228 229 230