Book Title: Shodshaka Prakaranam
Author(s): Haribhadrasuri, Buddhisagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 226
________________ श्रीषोडश मूलमू. प्रकरणम् ॥१०६॥ परिणामिन्यात्मनि सति तत्तद्धनिवाच्यमेतदखिलं स्यात् । अर्थान्तरे च तत्त्वेऽविद्यादा वस्तुसत्येव ॥५॥ तद्योगयोग्यतायां चित्रायां चैव नान्यथा नियमात् । परिभावनीयमेतद्विद्वद्भिस्तत्त्वदृष्ट्योचैः ॥६॥ पुरुषाद्वैतं तु यदा भवति विशिष्टमथ च बोधमात्रं वा । भवभवविगमविभेदस्तदा कथं युज्यते मुख्यः ॥ ७ ॥ अमिजलभूमयो यत्परितापकरा भवेऽनुभवसिद्धाः । रागादयश्च रौद्रा असत्प्रवृत्त्यास्पदं लोके ॥ ८॥ परिकल्पिता यदि ततो न सन्ति तत्त्वेन कथममी स्युरिति । तन्मात्र एव तत्त्वे भवभवविगमौ कथं युक्तौ ॥९॥ परिकल्पनापि चैषा हन्त विकल्पात्मिका न सम्भवति । तन्मात्र एव तत्त्वे यदि वाऽभावो न जात्वस्याः ॥१०॥ ऐदम्पर्य शुद्यति यत्रासावागमः सुपरिशुद्धः । तदभावे तद्देशः कश्चित्स्यादन्यथाग्रहणात् ॥ ११ ॥ तस्माद्यथोक्तमेतत्रितयं नियमेन धीधनैः पुम्भिः । भवभवविगमनिवन्धनमालोच्यं शान्तचेतोभिः ॥ १२॥ तत्रापि च न द्वेषः कार्यो विषयस्तु यत्नतो मृग्यः । तस्यापि न सद्वचनं सर्वं यत्प्रवचनादन्यत् ॥१३॥ अद्वेषो जिज्ञासा शुश्रूषा श्रवणबोधमीमांसाः। परिशुद्धा प्रतिपत्तिः प्रवृत्तिरष्टाङ्गिकी तत्त्वे ॥१४॥ गर्भार्थ खल्वेषां भावानां यत्नतः समालोच्य । पुंसा प्रवर्तितव्यं कुशले न्यायः सतामेपः ॥ १५ ॥ एते प्रवचनतः खलु समुद्धृता मन्दमतिहितार्थ तु । आत्मानुस्मरणाय च भावा भवविरह सिद्धिफलाः॥१६॥१६॥ धर्मश्रवणे यत्नः सततं कार्यो बहुश्रुतसमीपे । हितकाविभिनृसिंहैर्वचनं ननु हारिभद्रमिदम् ॥ १७ ॥ ॥ श्रीपोडशकप्रकरणं समाप्तम् ॥ | ॥१०६॥ Jain Education international For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230