Book Title: Shodshaka Prakaranam
Author(s): Haribhadrasuri, Buddhisagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 186
________________ प श्रीषोडश- प्रकरणम्. पारितो यावत्तस्य बाणस्य न विमोचनं तावत्तत्पगुणतामात्रेण तदविसंवादित्त्वेन च समोऽनालम्बनयोगः । यदा तु तस्य टीकाद्वयबाणस्य मोचनलक्ष्याऽविसंवादिपतनमात्रादेव सुतरां लक्ष्यवेध एवं यदानालम्बनध्यानमोचनं ध्यानान्तरिकायां तदैव पर-13 तत्त्ववेधकल्पः केवलप्रकाश इति ॥ १० ॥ | समेतम्. ___ कीदृशं पुनस्तत्केवलज्ञानमित्याह ॥ आत्मस्थं त्रैलोक्यप्रकाशकं निष्क्रियं परानन्दम् । तीतादिपरिच्छेदकमलं ध्रुवं चेति समयज्ञाः ॥११॥ | य. आत्मनि तिष्ठतीत्यात्मस्थं जीवस्थं सत्रैलोक्यस्य त्रिलोकीव्यवस्थितस्य ज्ञेयस्य जीवाजीवरूपस्य प्रकाशकमवबोधक|मात्मनः परेषां च पदार्थानां स्वरूपज्ञापकं वा । निष्क्रिय गमनादिक्रियारहितं पर आनन्दोऽस्मिन्निति परानन्दम् । पाठा|न्तरं वा परानन्द्यं परैरानन्द्यमभिनन्दनीयं तत्प्राप्त्यर्थिभिः श्लाघनीयं रोचनीयमितियावत् । तीतादिपरिच्छेदकम् अतीतशब्दस्यार्थे तीतशब्दो वर्त्तते, सिद्धिविनिश्चयादिग्रन्थेषु दर्शनात् इतादिपरिच्छेदकं वा । इतं गतमतिक्रान्तं अतीतवर्त्तमानानागतानां कालत्रयविषयाणां पदार्थानां परिच्छेदकं परिच्छेतृ ज्ञातृस्वभावमलं समर्थ, ध्रुवं चेति शाश्वतं चेति समयज्ञा आगमज्ञा, इत्थमभिदधति । कथं पुनरतीतादिपरिच्छेदकत्वं केवलज्ञानस्य यावतातीतानागतयोर्विचार्यमाणयोर्वस्तुत्वमेव न घटां प्राञ्चति विनष्टानुत्पन्नत्वेनासत्त्वादऽसतश्च ज्ञानविषयत्वविरोधादित्यत्रोच्यते । न वर्तमानकालविषयैकपयोयप्रतिबद्धस्वभावं वस्तु तस्य क्षणमात्रवृत्तित्वाद्वस्तुनस्तु सकलातीतानागताऽनाद्यऽनन्तपर्यायराशिसमनुगतैकाकाररू- ॥८६॥ पत्वात् तत्र च वर्तमानपर्यायवत्स्वलक्षणभाविनामतीतानागतपर्यायाणामपि प्रमाणेनोपलब्धेर्वस्तुसत्त्वादन्यथा स्मृत्या Jain Education a l For Private Personal Use Only VIjainelibrary.org

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230