Book Title: Shodshaka Prakaranam
Author(s): Haribhadrasuri, Buddhisagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीपोडश
प्रकरणम्.
॥ ८९ ॥
Jain Education in
परतत्त्वस्यैव शब्दान्तराभिधेयतामाह ॥
सैषाऽविद्यारहितावस्थापरमात्मशब्दवाच्येति । एषैव च विज्ञेया रागादिविवर्जिता तथता ॥ २ ॥
य० सैषाऽविद्यारहिताऽवस्थाऽविद्यया परतन्त्रप्रसिद्धया रहिता विकलाऽवस्थाऽवस्थितिर्वस्तुसती या सा । एषा पर तत्त्वरूपा परमात्मशब्देन वाच्याऽभिधेया इतिशब्दः स्वरूपं दर्शयति । एषैव चावस्था विज्ञेया विज्ञातव्या रागादिविवर्जिता रागादिरहिता तथ्यं सत्यं रूपमात्मनस्तद्भावस्तत्ता ॥ २ ॥
० परतत्त्वस्यैव शब्दान्तराभिधेयतामाह । सेत्यादि । अविद्यया परतन्त्रप्रसिद्धाज्ञानरूपया रहिताऽवस्था सा एषा या परतत्त्वरूपा परमात्मशब्देन वाच्येतिशब्दः स्वरूपदर्शने एषैव चावस्था विज्ञेया रागादिभिर्विवर्जिता तथ्यं सत्यं रूप
मात्मनस्तत्ता ॥ २ ॥
अस्यामेवावस्थायामन्यदपि तन्त्रान्तरोक्तं संवादयन्नाह ॥
वैशेषिकगुणरहितः पुरुषोऽस्यामेव भवति तत्त्वेन । विध्यातदीपकल्पस्य हन्त जात्यन्तराप्राप्तेः ॥ ३ ॥
य० विशेषे भवा वैशेषिकास्ते च ते गुणाश्च बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नाः वैशेषिकगुणास्तै रहितो विप्रयुक्तः पुरुषोऽस्यामेवावस्थायां भवति जायते । तत्त्वेन परमार्थेन । अस्यामेवेत्यवधारणफलमाह । विध्यातदीपेन कल्पस्तुल्यस्तुच्छरूपस्तत्रान्तरप्रसिद्ध्या तस्य । हन्त इत्यवधारणे जात्यन्तरस्य दोषवतः सतोऽदोषवत्त्वस्याप्राप्तेरलाभात् । नहि तुच्छरूपतामापन्नोऽविद्यारहितावस्थां वस्तुसतीं भजत इति जात्यन्तराप्राप्तिः ॥ ३ ॥
For Private & Personal Use Only
टीकाद्वय
समेतम्.
॥ ८९ ॥
ainelibrary.org

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230