Book Title: Shodshaka Prakaranam
Author(s): Haribhadrasuri, Buddhisagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 215
________________ Jain Education Int अप्रीतिरपि च तस्मिन् भगवति परमार्थनीतितो ज्ञेया । सर्वापायनिमित्तं ह्येषा पापा न कर्त्तव्या ॥ ७ ॥ अधिकगुणस्थैर्नियमात् कारयितव्यं खदौर्हदैर्युक्तम् । न्यायार्जितवित्तेन तु जिनविम्बं भावशुद्धेन ॥ ८ ॥ अत्रावस्थात्रयगामिनो बुधैदौर्हृदाः समाख्याताः । वालाद्याचैत्ता यत्तत्क्रीडनकादि देयमिति ॥ ९ ॥ यद्यस्य सत्कमनुचितमिह वित्ते तस्य तज्जमिह पुण्यम् । भवतु शुभाशयकरणादिसेतद्भावशुद्धं स्यात् ॥ १० ॥ मन्त्रन्यासश्च तथा प्रणयनमःपूर्वकं च तन्नाम । मन्त्रः परमो ज्ञेयो मननत्राणे तो नियमात् ॥ ११ ॥ विम्बं महत् रूपं कनकादिमयं च यः खलु विशेषः । नास्मात्फलं विशिष्टं भवति तु तदिहाशयविशेषात् ॥ १२ ॥ आगमतन्त्रः सततं तद्वद्भत्त्यादिलिङ्गसंसिद्धः । चेष्टायां तत्स्मृतिमान् शस्तः खल्वाशयविशेषः ॥ १३ ॥ एवंविधेन यद्विम्बकारणं तद्वदन्ति समयविदः । लोकोत्तरमन्यदतो लौकिकमभ्युदयसारं च ॥ १४ ॥ लोकोत्तरं तु निर्वाणसाधकं परमफलमिहाश्रित्य । अभ्युदयोऽपि हि परमो भवति त्वत्रानुषङ्गेण ॥ १५ ॥ कृषिकरण इव पालं नियमादत्रानुषङ्गिकोऽभ्युदयः । फलमिह धान्यावाप्तिः परमं निर्वाणमिव विम्बात् ॥ १६॥७॥ निष्पन्नस्यैवं खलु निविम्वस्योदिता प्रतिष्ठाशु । दशदिवसाभ्यन्तरतः सा च त्रिविधा समासेन ॥ १ ॥ व्यक्तथाख्या खल्वेका क्षेत्राख्या चापरा महाख्या च । यस्तीर्थकुद्यदा किल तस्य तदाद्येति समयविदः ॥ २ ॥ ऋषभाद्यानां तु तथा सर्वेषामेव मध्यमा ज्ञेया । सप्तत्यधिकशतस्य तु चरमेह महाप्रतिष्ठेति ॥ ३ ॥ For Private & Personal Use Only dnelibrary.org

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230