Book Title: Shodshaka Prakaranam
Author(s): Haribhadrasuri, Buddhisagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 200
________________ श्रीषोडश टीकाद्वय प्रकरणम्. समेतम्. ॥९३॥ | निबींजत्त्वात् । युक्तिमाह । तन्मात्र एव पुरुषमात्र एव ज्ञानमात्र एव च तत्त्वे । तदतिरेकेणेतरपदार्थाभावात् । अभ्युप-| गम्य परिकल्पनां दूषणान्तरमाह । यदि वा अभावोऽसम्भवो न नैव जातु कदाचिदप्यस्याः परिकल्पनायाः। यदि निब्बीजापीयं बाह्यान्तरपदार्थपरिकल्पनेष्यते ततः संसारवन्मुक्तावपि भवेदियमितिभावस्ततश्च संसारमोक्षभेदानुपपत्तिः परिकल्पनाबीजसद्भावाभ्युपगमे तु पुरुषबोधस्वलक्षणव्यतिरिक्तवस्त्वन्तरापत्त्या प्रस्तुताद्वैतपक्षद्वयहानिः॥१०॥ । उ० परिकल्पनाया असंभवादपि परिकल्पिताऽसम्भव इत्याह । परीत्यादि । परिकल्पिता परिकल्पनेत्यर्थः सापि चैषा बाह्यान्तराणामर्थानां हन्त विकल्पात्मिका वस्तुशून्यनिश्चयात्मिका न सम्भवति न युज्यते तन्मात्र एव पुरुषमात्र एव ज्ञानमात्र एव च तत्त्वेऽभ्युपगम्यमाने तदतिरेकेणेतरपरिकल्पनाबीजपदार्थाभावादित्यर्थः। अभ्युपगम्य परिकल्पितांदूषणान्तरमाह । यदिवाऽभावोऽसम्भवो न नैव जातु कदाचिदप्यस्याः परिकल्पनायाः स्यात् यदि निर्बीजापीयं बाह्यान्तरपदार्थपरिकल्पनेष्यते तदा संसारदशायामिव मुक्तावपीयं भवेदितिभावस्ततश्च संसारमोक्षभेदानुपपत्तिः परिकल्पनाबीजसद्भावाभ्युपगमे तु पुरुषबोधस्वलक्षणव्यतिरिक्तवस्त्वन्तरसिद्ध्या प्रस्तुताऽद्वैतपक्षद्वयहानिः ॥१०॥ एवं परपक्षं निरस्य त्रयसमर्थनायाह ॥ तस्माद्यथोक्तमेतत्रितयं नियमेन धीधनैः पुम्भिः। भवभवविगमनिबन्धनमालोच्यं शान्तचेतोभिः॥११॥ __ य० तस्माद्यथोक्तमेतत्रितयं जीवकर्मतथाभव्यत्त्वरूपं नियमन नियोगेन धीधनैः बुद्धिधनैः पुम्भिः पुरुषैर्भवभवविगमनिबन्धनं संसारमोक्षकारणमालोच्यमालोचनीयं शान्तचेतोभिः शान्तचित्तैः ॥ ११॥ ॥९३॥ Jain Education a l For Private & Personal Use Only jalnay.org

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230