Book Title: Shodshaka Prakaranam
Author(s): Haribhadrasuri, Buddhisagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 211
________________ दाक्षिण्यं परकृत्येष्वपि योगपरः शुभाशयो ज्ञेयः। गाम्भीर्यधैर्यसचिवो मात्सर्यविघातकृत्परमः॥४॥ पापजुगुप्सा तु तथा सम्यक्परिशुद्धचेतसा सततम् । पापोद्वेगोऽकरणं तदचिन्ता चेत्यनुक्रमतः ॥५॥ निर्मलबोधोऽप्येवं शुश्रूषाभावसंभवो ज्ञेयः । शमगर्भशास्त्रयोगाच्छुतचिन्ताभावनासारः ॥६॥ युक्तं जनप्रियत्वं शुद्धं तद्धर्मसिद्धिफलदमलम् । धर्मप्रशंसनादेवीजाधानादिभावेन ॥ ७ ॥ आरोग्ये सति यद्वद् व्याधिविकारा भवन्ति नो पुंसाम् । तद्वद्धर्मारोग्ये पापविकारा अपि ज्ञेयाः ॥ ८॥ तन्नास्य विषयतृष्णा प्रभवत्युच्चैनै दृष्टिसम्मोहः । अरुचिन धर्मपथ्ये न च पापा क्रोधकण्डूतिः ॥९॥ गम्यागम्यविभागं त्यक्त्वा सर्वत्र वर्तते जन्तुः । विषयेष्ववितृप्तात्मा यतो भृशं विषयतृष्णेयम् ॥ १० ॥ गुणतस्तुल्ये तत्त्वे संज्ञाभेदागमान्यथादृष्टिः । भवति यतोऽसावधमो दोषः खलु दृष्टिसंमोहः ॥ ११ ॥ धर्मश्रवणेऽवज्ञा तत्त्वरसास्वादविमुखता चैव । धार्मिकसत्त्वासक्तिश्च धर्मपथ्येऽरुचेर्लिङ्गम् ॥ १२॥ सत्येतरदोपश्रुतिभावादन्तर्बहिश्च यत्स्फुरणम् । अविचार्य कार्यतत्त्वं तचिहं क्रोधकण्डूतेः ॥१३॥ एते पापविकारा न प्रभवन्त्यस्य धीमतः सततम् । धर्मामृतप्रभावाद्भवन्ति मैत्र्यादयश्च गुणाः ॥ १४ ॥ परहितचिन्ता मैत्री परदुःखविनाशिनी तथा करुणा । परसुखतुष्टिर्मुदिता परदोपोपेक्षणमुपेक्षा ॥१५॥ एतजिनप्रणीतं लिङ्गं खलु धर्मसिद्धिमजन्तोः । पुण्यादिसिद्धिसिद्धेः सिद्धं सद्धेतुभावेन ॥ १६ ॥ ४ ॥ Jain Education international For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230