Book Title: Shodshaka Prakaranam
Author(s): Haribhadrasuri, Buddhisagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 212
________________ श्रीपोडश-IN मूलम्. प्रकरणम् C ॥९९॥ एवं सिद्धे धर्म सामान्येनेह लिङ्गसंयुक्ते । नियमेन भवति पुंसां लोकोत्तरतत्त्वसम्प्राप्तिः॥१॥ आयं भावारोग्यं बीजं चैषा परस्य तस्यैव । अधिकारिणो नियोगाचरम इयं पुद्गलावर्ते ॥२॥ स भवति कालादेव प्राधान्येन सुकृतादिभावेऽपि । ज्वरशमनौषधसमयवदिति समयविदो विदुर्निपुणम् ॥३॥ नागमवचनं तदधः सम्यक्परिणमति नियम एपोऽत्र । शमनीयमिवाभिनवे ज्वरोदयेऽकाल इति कृत्वा ॥४॥ आगमदीपेऽध्यारोपमण्डलं तत्त्वतोऽसदेव तथा । पश्यन्यपवादात्मकमविषय इह मन्दधीनयनाः ॥५॥ तत एवाविधिसेवादानादौ तत्प्रसिद्धफल एव । तत्तत्त्वदृशामेषा पापा कथमन्यथा भवति ॥ ६ ॥ येपामेपा तेषामागमवचनं न परिणतं सम्यक । अमृतरसाखादज्ञः को नाम विषे प्रवर्त्तत ॥७॥ तस्माचरमे नियमादागमवचनमिह पुद्गलावर्ते । परिणमति तत्त्वतः खलु स चाधिकारी भवत्यस्याः ॥८॥ आगमवचनपरिणतिर्भवरोगसदौषधं यदनपायम् । तदिह परः सद्बोधः सदनुष्ठानस्य हेतुरिति ॥९॥' दशसंज्ञाविष्कम्भणयोगे सत्यविकलं वदो भवति । परहितनिरतस्य सदा गम्भीरोदारभावस्य ॥१०॥ सर्वज्ञवचनमागमवचनं यत्परिणते ततस्तस्मिन् । नासुलभमिदं सर्व बुभयमलपरिक्षयात्पुंसाम् ॥ ११॥ विधिसेवा दानादौ सूत्रानुगता तु सा नियोगेन । गुरुपारतव्ययोगादौचित्याच्चैव सर्वत्र ॥ १२ ॥ १ आगमवचनपरिणतिर्भवरोगसदौषधं भवति यस्मात् । निरपायं तदिह परः सदनुष्ठानस्य हेतु रिति ॥ ९ ॥ ॥९९॥ JainEducation international For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230