SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ श्रीपोडश-IN मूलम्. प्रकरणम् C ॥९९॥ एवं सिद्धे धर्म सामान्येनेह लिङ्गसंयुक्ते । नियमेन भवति पुंसां लोकोत्तरतत्त्वसम्प्राप्तिः॥१॥ आयं भावारोग्यं बीजं चैषा परस्य तस्यैव । अधिकारिणो नियोगाचरम इयं पुद्गलावर्ते ॥२॥ स भवति कालादेव प्राधान्येन सुकृतादिभावेऽपि । ज्वरशमनौषधसमयवदिति समयविदो विदुर्निपुणम् ॥३॥ नागमवचनं तदधः सम्यक्परिणमति नियम एपोऽत्र । शमनीयमिवाभिनवे ज्वरोदयेऽकाल इति कृत्वा ॥४॥ आगमदीपेऽध्यारोपमण्डलं तत्त्वतोऽसदेव तथा । पश्यन्यपवादात्मकमविषय इह मन्दधीनयनाः ॥५॥ तत एवाविधिसेवादानादौ तत्प्रसिद्धफल एव । तत्तत्त्वदृशामेषा पापा कथमन्यथा भवति ॥ ६ ॥ येपामेपा तेषामागमवचनं न परिणतं सम्यक । अमृतरसाखादज्ञः को नाम विषे प्रवर्त्तत ॥७॥ तस्माचरमे नियमादागमवचनमिह पुद्गलावर्ते । परिणमति तत्त्वतः खलु स चाधिकारी भवत्यस्याः ॥८॥ आगमवचनपरिणतिर्भवरोगसदौषधं यदनपायम् । तदिह परः सद्बोधः सदनुष्ठानस्य हेतुरिति ॥९॥' दशसंज्ञाविष्कम्भणयोगे सत्यविकलं वदो भवति । परहितनिरतस्य सदा गम्भीरोदारभावस्य ॥१०॥ सर्वज्ञवचनमागमवचनं यत्परिणते ततस्तस्मिन् । नासुलभमिदं सर्व बुभयमलपरिक्षयात्पुंसाम् ॥ ११॥ विधिसेवा दानादौ सूत्रानुगता तु सा नियोगेन । गुरुपारतव्ययोगादौचित्याच्चैव सर्वत्र ॥ १२ ॥ १ आगमवचनपरिणतिर्भवरोगसदौषधं भवति यस्मात् । निरपायं तदिह परः सदनुष्ठानस्य हेतु रिति ॥ ९ ॥ ॥९९॥ JainEducation international For Private Personal Use Only www.jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy