Book Title: Shodshaka Prakaranam
Author(s): Haribhadrasuri, Buddhisagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 199
________________ अथ सर्वेऽप्येते बाह्या आन्तराश्च परिकल्पितरूपा एवेत्याशङ्कायामिदमाह ॥ परिकल्पिता यदि ततो न सन्ति तत्त्वेन कथममी स्युरिति । तन्मात्र एव तत्त्वे भवभवविगमौ कथं युक्तौ९ KI य० परिकल्पिता अवस्तुसन्तः कल्पनामात्रनिर्मितशरीरा बाह्या आन्तराश्च यदि भवताऽभ्युपगम्यन्ते । ततः परिकल्पितत्त्वादेव न सन्ति न विद्यन्ते तत्त्वेन परमार्थेन कथममी पदार्थाः स्युभवेयुन्ने कथंचिद्भवेयुर्भवताप्यनभ्युपगमात् ।। इत्येवं तन्मात्र एव पुरुषमात्र एव बोधमात्र एव च तत्त्वे परमार्थे भवभव विगमो संसारमोक्षौ कथं केन प्रकारेण युक्तो सङ्गता न कथञ्चिदित्यर्थः॥९॥ उ. अथ सर्वेऽप्येते बाह्या आन्तराश्च भावाः परिकल्पितरूपा एवेत्याशङ्कायामिदमाह । परीत्यादि । परिकल्पिता अवस्तुसन्तः कल्पनामात्रनिम्मितशरीरा बाह्या आन्तराश्च यदि भवताभ्युपगम्यन्ते ततः परिकल्पितत्त्वादेव न सन्ति न विद्यन्ते तत्त्वेन परमार्थेन । तथा च कथममी पदार्थाः स्युर्भवेयुर्न कथंचिद्भवताप्यनभ्युपगमात् । इत्येवं तन्मात्र एव पुरुषमात्र एव तत्त्वे परमार्थेऽभ्युपगम्यमाने भवभवविगमौ संसारमोक्षौ कथं केन प्रकारेण युक्तौ न कथञ्चिदित्यर्थः॥९॥ कस्मात्पुनः परिकल्पिता एते न सन्तीत्युच्यते परिकल्पनाया एवाभावादित्याह ।। परिकल्पनापि चैषा हन्त विकल्पात्मिका न सम्भवति। तन्मात्र एव तत्वे यदि वाऽभावो न जात्वस्याः॥१०॥ य० परिकल्पनापि च एषा बाह्यान्तराणामर्थानां हन्त विकल्पात्मिका वस्तुशून्यनिश्चयात्मिका न संभवति न युज्यते १. चित्पुस्तके परिकल्पितेति पाठो दृश्यते. RELA Jain Education in national For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230