SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ अथ सर्वेऽप्येते बाह्या आन्तराश्च परिकल्पितरूपा एवेत्याशङ्कायामिदमाह ॥ परिकल्पिता यदि ततो न सन्ति तत्त्वेन कथममी स्युरिति । तन्मात्र एव तत्त्वे भवभवविगमौ कथं युक्तौ९ KI य० परिकल्पिता अवस्तुसन्तः कल्पनामात्रनिर्मितशरीरा बाह्या आन्तराश्च यदि भवताऽभ्युपगम्यन्ते । ततः परिकल्पितत्त्वादेव न सन्ति न विद्यन्ते तत्त्वेन परमार्थेन कथममी पदार्थाः स्युभवेयुन्ने कथंचिद्भवेयुर्भवताप्यनभ्युपगमात् ।। इत्येवं तन्मात्र एव पुरुषमात्र एव बोधमात्र एव च तत्त्वे परमार्थे भवभव विगमो संसारमोक्षौ कथं केन प्रकारेण युक्तो सङ्गता न कथञ्चिदित्यर्थः॥९॥ उ. अथ सर्वेऽप्येते बाह्या आन्तराश्च भावाः परिकल्पितरूपा एवेत्याशङ्कायामिदमाह । परीत्यादि । परिकल्पिता अवस्तुसन्तः कल्पनामात्रनिम्मितशरीरा बाह्या आन्तराश्च यदि भवताभ्युपगम्यन्ते ततः परिकल्पितत्त्वादेव न सन्ति न विद्यन्ते तत्त्वेन परमार्थेन । तथा च कथममी पदार्थाः स्युर्भवेयुर्न कथंचिद्भवताप्यनभ्युपगमात् । इत्येवं तन्मात्र एव पुरुषमात्र एव तत्त्वे परमार्थेऽभ्युपगम्यमाने भवभवविगमौ संसारमोक्षौ कथं केन प्रकारेण युक्तौ न कथञ्चिदित्यर्थः॥९॥ कस्मात्पुनः परिकल्पिता एते न सन्तीत्युच्यते परिकल्पनाया एवाभावादित्याह ।। परिकल्पनापि चैषा हन्त विकल्पात्मिका न सम्भवति। तन्मात्र एव तत्वे यदि वाऽभावो न जात्वस्याः॥१०॥ य० परिकल्पनापि च एषा बाह्यान्तराणामर्थानां हन्त विकल्पात्मिका वस्तुशून्यनिश्चयात्मिका न संभवति न युज्यते १. चित्पुस्तके परिकल्पितेति पाठो दृश्यते. RELA Jain Education in national For Private Personal Use Only www.jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy