Book Title: Shodshaka Prakaranam
Author(s): Haribhadrasuri, Buddhisagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 202
________________ श्रीषोडश प्रकरणम्. ॥ ९४॥ मूलागमव्यतिरिक्त तदेकदेशभूत आगमेऽन्यथापरिगृहीते द्वेषो विधेयो नवेति तदभावप्रतिपादनायाह ॥ टीकाद्वयतत्रापि च न देषः कार्यों विषयस्तु यत्नतो मृग्यः। तस्यापि न सद्वचनं सर्व यत्प्रवचनादन्यत ॥१३॥l | समेतम्. य० तत्रापि च तदेकदेशभूत आगमान्तरे न द्वेषः कार्यो न द्वेषो विधेयो विषयस्त्वभिधेयज्ञेयरूपो यत्नतो यत्नेन मृग्योऽन्वेषणीयो यद्येवं सर्वमेव तद्वचनं किं न प्रमाणीक्रियत इत्याह । तस्याप्यागमान्तरस्य न सत् शोभनं वचनं सर्चमखिलं यत्प्रवचनान्मूलागमादन्यत् । यत्तु तदनुपाति तत्सदेवेति ॥ १३ ॥ | उ० नन्वेवमन्यथाप्रतिपन्नमूलागमैकदेशगर्भपरतन्त्रे द्वेषः कार्यो नवेत्याशङ्कायामाह । तत्रापीत्यादि । तत्रापि तदेक-1 | देशभूतागमान्तरेऽपि न द्वेषः कार्यः तु पुनर्विपयो यत्लतो मृग्यस्तदर्थानुपपत्तिपरिहारो यत्नतः कर्त्तव्यः गुणग्रहरसिकानां परवचनानुपपत्तिपरिहारप्रवणस्वभावत्वात् । ननु वस्तुत उपपन्नार्थवचनस्यानुपपत्तिशङ्का परिहार्या नतु सर्वथानुपपन्नस्येति निर्विषयोऽयमुपदेश इत्यत आह । तस्याप्यागमान्तरस्य सद्वचनं शोभनं वचनं सर्व यद् यस्मात्प्रवचनान्मूलागमादन्यन्न |किन्तु तदनुपात्येव तथा च तस्य मूलागमेनैकवाक्यतामापाद्योपपत्तिरेव कत्तव्येत्थमेव सम्यग्दृष्टिपरिगृहीतस्य मिथ्याश्रतस्यापि सम्यक्श्रुतत्त्वसिद्धेस्तदरुचिस्तु तत्त्वतो दृष्टिवादारुचिपर्य्यवसायिनीति सुप्रसिद्धमुपदेशपदादौ ॥१३॥ | कस्मात्पुनस्तत्राद्वेषः क्रियत इत्याह ॥ अद्वेषो जिज्ञासा शुश्रूषा श्रवणबोधमीमांसाः । परिशुद्धा प्रतिपत्तिः प्रवृत्तिरष्टानिकी तत्त्वे ॥ १४॥3॥ ९४ ॥ य० अद्वेषोऽप्रीतिपरिहारस्तत्त्वविषयस्तत्पूर्विका ज्ञातुमिच्छा जिज्ञासा तत्त्वविषया ज्ञानेच्छा तत्त्वजिज्ञासा सा पूबिका Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230