SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ श्रीपोडश प्रकरणम्. ॥ ८९ ॥ Jain Education in परतत्त्वस्यैव शब्दान्तराभिधेयतामाह ॥ सैषाऽविद्यारहितावस्थापरमात्मशब्दवाच्येति । एषैव च विज्ञेया रागादिविवर्जिता तथता ॥ २ ॥ य० सैषाऽविद्यारहिताऽवस्थाऽविद्यया परतन्त्रप्रसिद्धया रहिता विकलाऽवस्थाऽवस्थितिर्वस्तुसती या सा । एषा पर तत्त्वरूपा परमात्मशब्देन वाच्याऽभिधेया इतिशब्दः स्वरूपं दर्शयति । एषैव चावस्था विज्ञेया विज्ञातव्या रागादिविवर्जिता रागादिरहिता तथ्यं सत्यं रूपमात्मनस्तद्भावस्तत्ता ॥ २ ॥ ० परतत्त्वस्यैव शब्दान्तराभिधेयतामाह । सेत्यादि । अविद्यया परतन्त्रप्रसिद्धाज्ञानरूपया रहिताऽवस्था सा एषा या परतत्त्वरूपा परमात्मशब्देन वाच्येतिशब्दः स्वरूपदर्शने एषैव चावस्था विज्ञेया रागादिभिर्विवर्जिता तथ्यं सत्यं रूप मात्मनस्तत्ता ॥ २ ॥ अस्यामेवावस्थायामन्यदपि तन्त्रान्तरोक्तं संवादयन्नाह ॥ वैशेषिकगुणरहितः पुरुषोऽस्यामेव भवति तत्त्वेन । विध्यातदीपकल्पस्य हन्त जात्यन्तराप्राप्तेः ॥ ३ ॥ य० विशेषे भवा वैशेषिकास्ते च ते गुणाश्च बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नाः वैशेषिकगुणास्तै रहितो विप्रयुक्तः पुरुषोऽस्यामेवावस्थायां भवति जायते । तत्त्वेन परमार्थेन । अस्यामेवेत्यवधारणफलमाह । विध्यातदीपेन कल्पस्तुल्यस्तुच्छरूपस्तत्रान्तरप्रसिद्ध्या तस्य । हन्त इत्यवधारणे जात्यन्तरस्य दोषवतः सतोऽदोषवत्त्वस्याप्राप्तेरलाभात् । नहि तुच्छरूपतामापन्नोऽविद्यारहितावस्थां वस्तुसतीं भजत इति जात्यन्तराप्राप्तिः ॥ ३ ॥ For Private & Personal Use Only टीकाद्वय समेतम्. ॥ ८९ ॥ ainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy