Book Title: Shodshaka Prakaranam
Author(s): Haribhadrasuri, Buddhisagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 196
________________ 4 22- श्रीषोडश- यमेतत्रयं जीवकर्म(तथा)भव्यत्त्वरूपं विद्वद्भिः सूरिभिस्तत्त्वदृष्ट्या परमार्थविषयया बुद्ध्यागमापनीतविपर्ययमलया प्रज्ञयो- टीकाद्वय 18 चैरत्यर्थम् ॥६॥ प्रकरणम् | उ० तथा । तद्योगेत्यादि । तेनार्थान्तरभूतेन तत्त्वेनाविद्यादिना योगः सम्बन्ध आत्मनः कर्मवन्ध इत्यर्थः तस्मिन् समेतम्. योग्यता जीवस्य कर्मपुद्गलग्राहकस्वभावत्त्वमनादिपारिणामिकभव्यभावलक्षणं सहजमलरूपं मुक्तिसमये विनिवृत्तिमत्तस्यां चित्रायां चैव नानाप्रकारायामेव सत्यां नान्यथा एकस्वभावायां योग्यतायां फलभेदासिद्धेः । दृश्यते च द्रव्यक्षेत्रकालभावप्रक्रमेण तीर्थकरातीर्थकरप्रत्येकबुद्धस्वयंबुद्धादिरूपः फलभेदस्तस्मात्तन्नियामक योग्यतावैचित्र्यमवश्यमाश्रयणीयमिति। नियमान्नियमेन परिभावनीयं सर्वप्रकारैश्चिन्तनीयमेतत्रयं जीवकर्म(तथा)भव्यत्त्वरूपं विद्वद्भिः सूरिभिस्तत्त्वदृष्ट्यागमाप नीतविपर्ययमलया प्रज्ञयोच्चैरत्त्यर्थम् । ननु तीर्थकरसिद्धत्त्वादिकं नीलघटत्त्वादिवदर्थसमाजसिद्धमिति तत्प्रयोजकतया यो-18 है ग्यताभेदो न सिद्ध्येदिति चेन्न । कार्ये तावद्धर्मकत्त्वस्य योग्यताविशेषप्रयोज्यत्त्वात्, तत्र तथाविधसामग्रीसमाजस्य प्रयोजकत्त्वे तत्रापि तथाविधप्रयोजकान्तराश्रयणेऽनवस्थानात्, यदि चेयमनवस्था प्रामाणिकानां न दोषाय तदायं नियतधर्मककार्यनियामकस्तथाविधसामग्रीसमाज एव कथंचिदेकत्त्वेन भासमानः परिणामिभव्यत्त्वरूपः स्वीक्रियतामित्थमपि स्याद्वादप्रक्रियया दोषाभावादित्यधिकमस्मत्कृतस्याद्वादकल्पलतायाम् ॥ ६॥ एतत्रयानाश्रयणे संसारमोक्षयोरनुपचरितरूपयोरभावप्रदर्शनायाह ॥ M ॥९१॥ पुरुषाद्वैतं तु यदा भवति विशिष्टमथ च बोधमानं वा। भवभवविगमविभेदस्तदा कथं युज्यते मुख्यः॥७॥ lain Education de na For Private Personal Use Only KIPEjainelibrary.org

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230