Book Title: Shodshaka Prakaranam
Author(s): Haribhadrasuri, Buddhisagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 193
________________ Jain Education In उ० अस्यामेवावस्थायां तन्त्रान्तरोक्तमन्यदपि संवादयन्नाह । वैशेषिकेत्यादि । विशेषे भवा वैशेषिकास्ते च ते गुणाश्च बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नास्तै रहितः पुरुषोऽस्यामेवावस्थायां भवति तत्त्वेन परमार्थेन तेनाखण्डशुद्धज्ञानसुखाद्यन्वय्यात्मद्रव्यरूपाप्यशुद्धज्ञानाद्यभावरूपा मुक्तिः सिद्धा न तु सर्वथाऽभावरूपा बौद्धाभिमता विध्यातदीपेन कल्पस्य सर्वथातुच्छरूपस्यात्मनो हन्तेति प्रत्यवधारणे जात्यन्तरस्य दोषवतः सतोऽदोषवत्त्वस्याप्राप्तेः । नहि खरविषाणादिवत्तुच्छरूपतामापन्नोऽविद्यारहितावस्थां वस्तुसत्तां भजत इति जात्यन्तराप्राप्तिः । नच स्वाभावार्थं कस्यचित्प्रवृत्तिः सम्भवतीति पुरुषाधत्त्वादन्वय्यात्मद्रव्यस्योक्तावस्थैव मुक्तिर्घटते । एतेन सर्वथा सन्तानोच्छेद इत्येकेषां बौद्धानां शुद्धक्षणोत्पाद इत्यन्येषां च मतं निरस्तं भवति । अनन्वितशुद्धक्षणानां मुक्तित्वेऽन्यान्यमुक्तिसाङ्कर्यप्रसङ्गात् । वैशेषिकगुणरहित इति वाग्भञ्ज्या | कथंचिन्निर्गुणमुक्तिपक्ष आदृतः सर्वथा निर्गुणमुक्तिपक्षस्तु वेदान्त्यादीनामपास्तः ॥ ३ ॥ एवं बौद्धमतनिरासं प्रतिपाद्य वस्तुसत्यामवस्थायां तन्त्रान्तरोक्तं संभवित्त्वेन निदर्शयन्नाह ॥ एवं पशुविमो दुःखान्तो भूतविगम इत्यादि । अन्यदपि तत्रसिद्धं सर्वमवस्थान्तरेऽत्रैव ॥ ४ ॥ य० एवमुक्तनीत्या पशु॒त्त्वमज्ञत्त्वं तस्य विगमोऽपगमः सर्व्वथा निवृत्तिः दुःखानामन्तो दुःखान्तो भूतानां पृथिव्यादीनां विगम आत्यन्तिको वियोग इत्यादि । एवं प्रभृति अन्यदपि तन्त्रसिद्धं पूर्वोक्तं सर्वं निरवशेषमवस्थान्तरेऽविद्यारहितावस्थाविशेषेऽत्रैव परतत्त्वरूपे युज्यते । नान्यत्रेति ॥ ४ ॥ For Private & Personal Use Only ainelibrary.org

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230