Book Title: Shodshaka Prakaranam
Author(s): Haribhadrasuri, Buddhisagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 191
________________ तीतं सिद्धिसमये तन्निवृत्त्यभिधानात् सदा शिवमति सदाशिवमादौ भवमाद्यं प्रधानप्रवाहापेक्षयादिभावेनावस्थितं वा एतदादिपदवाच्यम् । आदिना निरञ्जनादिग्रहः परतत्त्वमिति सर्वत्र सम्बन्धनीयम् ॥ १६ ॥ १५ ॥ ॥ इति पञ्चदशं षोडशकम् ॥ एवं परतत्त्वमभिधाय तदर्शनानन्तरं यद्भवति तदाह ॥ एतदृष्ट्वा तत्त्वं परममनेनैव समरसापत्तिः । सञ्जायतेऽस्य परमा परमानन्द इति यामाहुः॥१॥ य० एतत्प्रस्तुतं दृष्ट्वाऽवलोक्य तत्त्वं परमं परतत्त्वमित्यर्थः अनेनैवमुक्तस्वरूपेण समरसापत्तिः समतापत्तिः सञ्जायते सम्भवत्यस्य द्रष्टुः केवलिनः परमा प्रधाना परमानन्द इति यामाहुः यां समरसापत्तिं परमानन्द इत्यनेन शब्देन ब्रुवते वेदान्तवादिनः सा सञ्जायत इति ॥१॥ ___ उ० एवं परतत्त्वमभिधाय तदर्शनानन्तरं यद्भवति तदाह । एतदित्यादि । एतत्प्रस्तुतं परमतत्त्वं दृष्ट्वाऽनेनैव परतत्वेन समरसापत्तिरकता सञ्जायतेऽस्य द्रष्टः केवलिनः परमा प्रधाना परमानन्द इति यां समरसापत्तिमाहुर्वेदान्तवादिनः॥१॥ Jain Educaton a l For Private Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230