Book Title: Shodshaka Prakaranam
Author(s): Haribhadrasuri, Buddhisagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 184
________________ श्रीषोडश टीकाद्वय प्रकरणम्. समेतम्. नेच्छा अनालम्बनयोगः प्रोक्तस्तद्वेदिभिस्तस्य परतत्त्वस्य दर्शनमुपलम्भस्तद्यावत् परमात्मस्वरूपदर्शने तु केवलज्ञानेन अनालम्बनयोगो न भवति । तस्य तदालम्बनत्त्वात् , ॥८॥ ___ उ० कः पुनरनालम्बनयोगः कियन्तं च कालं भवतीत्याह । सामर्थ्येत्यादि । सामर्थ्ययोगतः "शास्त्रसंदर्शितोपायस्तदतिक्रान्तगोचरः। शतयुद्रेकाद्विशेषेण सामर्थ्याख्योऽयमुत्तम"इत्येवमुक्तलक्षणात् क्षपकश्रेणीद्वितीयापूर्वकरणभाविनः सकाशात् या तत्र परतत्त्वे दिदृक्षा द्रष्टुमिच्छा इत्येवस्वरूपाऽसङ्गा निरभिष्वङ्गा शक्तिरनवरतप्रवृत्तिस्तयाढ्या परिपूर्णा सा परमात्मविषयदर्शनेच्छाऽनालम्बनयोगः प्रोक्तः तद्वेदिभिः तस्य परतत्त्वस्यादर्शनमनुपलम्भस्तद् यावत्परमात्मस्वरूपदर्शने तु केवलज्ञानेऽनालम्बनयोगो न भवति दृष्टस्य तस्य तदालम्बनीभावात् ॥ ८॥ कथं पुनरनालंबनोऽयमित्याह ॥ __तत्राप्रतिष्ठितोऽयं यतः प्रवृत्तश्च तत्त्वतस्तत्र । सर्वोत्तमानुजः खलु तेनानालम्बनो गीतः॥९॥ ॥ य. तत्र परतत्त्वेऽप्रतिष्ठितोऽलब्धप्रतिष्ठः अयमनालम्बनो यतो यस्मात्प्रवृत्तश्च ध्यानरूपेण तत्त्वतो वस्तुतस्तत्र परतत्त्वे सर्वोत्तमानुजः खलु सर्वोत्तमस्य योगस्यानुजः प्रागनन्तरवर्ती तेन कारणेनाऽनालम्बनो गीतः कथितः॥९॥ उ० परतत्त्वदिदृक्षाया अनालम्बनयोगत्त्वे उपपत्तिमाह । तत्रेत्यादि । तत्र परतत्त्वेऽप्रतिष्ठितोऽलब्धप्रतिष्ठोऽयं परमात्मदिदृक्षाख्यो योगो यतो यस्मात् प्रवृत्तश्च ध्यानरूपेण तत्त्वतो वस्तुतस्तत्र परतत्त्वे तदाभिमुख्याप्रच्यवात् सर्वोत्तमस्य योगनिरोधाख्यनिखिलातिशायियोगस्याऽनुजः प्रागनन्तरवर्ती खलु तेन कारणेनानालम्बनोऽनालम्बनयोगो गीतः कथितः ॥ ८५॥ Jain Education a l For Private Personal Use Only M ainelibrary.org

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230