________________
श्रीषोडश
टीकाद्वय
प्रकरणम्.
समेतम्.
नेच्छा अनालम्बनयोगः प्रोक्तस्तद्वेदिभिस्तस्य परतत्त्वस्य दर्शनमुपलम्भस्तद्यावत् परमात्मस्वरूपदर्शने तु केवलज्ञानेन अनालम्बनयोगो न भवति । तस्य तदालम्बनत्त्वात् , ॥८॥ ___ उ० कः पुनरनालम्बनयोगः कियन्तं च कालं भवतीत्याह । सामर्थ्येत्यादि । सामर्थ्ययोगतः "शास्त्रसंदर्शितोपायस्तदतिक्रान्तगोचरः। शतयुद्रेकाद्विशेषेण सामर्थ्याख्योऽयमुत्तम"इत्येवमुक्तलक्षणात् क्षपकश्रेणीद्वितीयापूर्वकरणभाविनः सकाशात् या तत्र परतत्त्वे दिदृक्षा द्रष्टुमिच्छा इत्येवस्वरूपाऽसङ्गा निरभिष्वङ्गा शक्तिरनवरतप्रवृत्तिस्तयाढ्या परिपूर्णा सा परमात्मविषयदर्शनेच्छाऽनालम्बनयोगः प्रोक्तः तद्वेदिभिः तस्य परतत्त्वस्यादर्शनमनुपलम्भस्तद् यावत्परमात्मस्वरूपदर्शने तु केवलज्ञानेऽनालम्बनयोगो न भवति दृष्टस्य तस्य तदालम्बनीभावात् ॥ ८॥
कथं पुनरनालंबनोऽयमित्याह ॥ __तत्राप्रतिष्ठितोऽयं यतः प्रवृत्तश्च तत्त्वतस्तत्र । सर्वोत्तमानुजः खलु तेनानालम्बनो गीतः॥९॥ ॥
य. तत्र परतत्त्वेऽप्रतिष्ठितोऽलब्धप्रतिष्ठः अयमनालम्बनो यतो यस्मात्प्रवृत्तश्च ध्यानरूपेण तत्त्वतो वस्तुतस्तत्र परतत्त्वे सर्वोत्तमानुजः खलु सर्वोत्तमस्य योगस्यानुजः प्रागनन्तरवर्ती तेन कारणेनाऽनालम्बनो गीतः कथितः॥९॥
उ० परतत्त्वदिदृक्षाया अनालम्बनयोगत्त्वे उपपत्तिमाह । तत्रेत्यादि । तत्र परतत्त्वेऽप्रतिष्ठितोऽलब्धप्रतिष्ठोऽयं परमात्मदिदृक्षाख्यो योगो यतो यस्मात् प्रवृत्तश्च ध्यानरूपेण तत्त्वतो वस्तुतस्तत्र परतत्त्वे तदाभिमुख्याप्रच्यवात् सर्वोत्तमस्य योगनिरोधाख्यनिखिलातिशायियोगस्याऽनुजः प्रागनन्तरवर्ती खलु तेन कारणेनानालम्बनोऽनालम्बनयोगो गीतः कथितः
॥ ८५॥
Jain Education
a
l
For Private
Personal Use Only
M
ainelibrary.org