SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ स्वरूपं सर्वदा समुपलभ्यते नेतरत् तदेव परमात्मस्वरूपं परं प्रकृष्टं मतमभिप्रेतं ब्रह्म महत् बृहत्तमं न ततोऽन्यदस्ति तद्योगात्परतत्त्वयोगात् , अस्यापि हि परतत्त्वविषयध्यानविशेषस्यानालम्बनयोगस्य । एषा लोके लोकोत्तरे च प्रसिद्धा त्रै-| लोक्यसुन्दरता त्रैलोक्ये सर्वस्मिन्नपि जगति विशेषवस्तुभ्यः सुन्दरता शोभनता ॥७॥ | उ. कुतः पुनः परतत्त्वमेवं प्रशस्यत इत्यत आह । तस्मिन्नित्यादि । एतस्मिन् परतत्त्वे सिद्धस्वरूपे दृष्टे दृष्टं सर्वमेवर वस्तु भवतीतिशेषः । जीवाद्यमूर्त्तवस्त्वालम्बनस्य सर्वविषयत्वात्तद्भूतं तदेव सिद्धरूपं भूतं सत्यं संसारिजीवस्वरूपस्य ज्ञानावरणादिकर्मविकारोपद्रुतस्य सद्भूतत्ववियोगात् तत्तदेव परमात्मस्वरूपं परं प्रकृष्टं ब्रह्म मतं ततोऽन्यस्य बृहत्तमस्यायोगात् तद्योगात्परतत्त्वविषयकत्वसम्बन्धादस्याप्यनालम्बनयोगस्याप्येषा लोकलोकोत्तरप्रसिद्धा त्रैलोक्ये सर्वस्मिन्नपि जगति सुन्दरता शेषवस्तुनः शोभनता ॥७॥ । कः पुनर्निरालम्बनयोगः कियन्तं कालं भवतीत्याह ॥ सामर्थ्ययोगतो या तत्र दिदृक्षेत्यसङ्गशक्त्याढ्या । सानालम्बनयोगः प्रोक्तस्तदर्शनं यावत् ॥ ८॥ य. सामर्थ्ययोगतः शास्त्रोक्तत्वात् क्षपकश्रेणीद्वितीयाऽपूर्वकरणभाविनः सकाशात् । सामथ्र्ययोगस्वरूपं चेदम् । "शास्त्रसन्दर्शितोपायस्तदतिक्रान्तगोचरः । शतयुद्रेकाद्विशेषेण सामर्थ्याख्योऽयमुत्तमः” । या तत्र परतत्त्वे द्रष्टुमिच्छा दिदृक्षा इत्येवंस्वरूपाऽसङ्गा चासौ शक्तिश्च निरभिष्वङ्गाऽनवरतप्रवृत्तिस्तयाच्या परिपूर्णा दिदृक्षा । सा परमात्मविषयदर्श धीषो. १५ Main Eruwatan e bha For Private Personal Use Only liainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy