SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ स्वरूपं सर्वदा समुपलभ्यते नेतरत् तदेव परमात्मस्वरूपं परं प्रकृष्टं मतमभिप्रेतं ब्रह्म महत् बृहत्तमं न ततोऽन्यदस्ति तद्योगात्परतत्त्वयोगात् , अस्यापि हि परतत्त्वविषयध्यानविशेषस्यानालम्बनयोगस्य । एषा लोके लोकोत्तरे च प्रसिद्धा त्रै-| लोक्यसुन्दरता त्रैलोक्ये सर्वस्मिन्नपि जगति विशेषवस्तुभ्यः सुन्दरता शोभनता ॥७॥ | उ. कुतः पुनः परतत्त्वमेवं प्रशस्यत इत्यत आह । तस्मिन्नित्यादि । एतस्मिन् परतत्त्वे सिद्धस्वरूपे दृष्टे दृष्टं सर्वमेवर वस्तु भवतीतिशेषः । जीवाद्यमूर्त्तवस्त्वालम्बनस्य सर्वविषयत्वात्तद्भूतं तदेव सिद्धरूपं भूतं सत्यं संसारिजीवस्वरूपस्य ज्ञानावरणादिकर्मविकारोपद्रुतस्य सद्भूतत्ववियोगात् तत्तदेव परमात्मस्वरूपं परं प्रकृष्टं ब्रह्म मतं ततोऽन्यस्य बृहत्तमस्यायोगात् तद्योगात्परतत्त्वविषयकत्वसम्बन्धादस्याप्यनालम्बनयोगस्याप्येषा लोकलोकोत्तरप्रसिद्धा त्रैलोक्ये सर्वस्मिन्नपि जगति सुन्दरता शेषवस्तुनः शोभनता ॥७॥ । कः पुनर्निरालम्बनयोगः कियन्तं कालं भवतीत्याह ॥ सामर्थ्ययोगतो या तत्र दिदृक्षेत्यसङ्गशक्त्याढ्या । सानालम्बनयोगः प्रोक्तस्तदर्शनं यावत् ॥ ८॥ य. सामर्थ्ययोगतः शास्त्रोक्तत्वात् क्षपकश्रेणीद्वितीयाऽपूर्वकरणभाविनः सकाशात् । सामथ्र्ययोगस्वरूपं चेदम् । "शास्त्रसन्दर्शितोपायस्तदतिक्रान्तगोचरः । शतयुद्रेकाद्विशेषेण सामर्थ्याख्योऽयमुत्तमः” । या तत्र परतत्त्वे द्रष्टुमिच्छा दिदृक्षा इत्येवंस्वरूपाऽसङ्गा चासौ शक्तिश्च निरभिष्वङ्गाऽनवरतप्रवृत्तिस्तयाच्या परिपूर्णा दिदृक्षा । सा परमात्मविषयदर्श धीषो. १५ Main Eruwatan e bha For Private Personal Use Only liainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy