________________
पुरा विद्वद्भिः। स्यादेतत्परतत्त्वदिदृक्षाया अप्यपरतत्त्वदर्शनं यावदनालम्बनत्वापत्तिरपरतत्त्वस्य दृष्टत्वाभ्युपगमे च ध्यानानुपपत्तिरिति, मैवं । अपरतत्त्वे प्रतिमाद्यालम्बनद्वारा सामान्यतो दृष्टोऽपि विशेषदर्शनाय ध्यानोपपत्तेः परम्परयालम्बनवत्त्वेन च सालम्बनत्त्वव्यपदेशात्परतत्त्वे तु केनापि द्वारेण दर्शनाभावादनालम्बनत्वोपपत्तेः॥९॥
किं पुनरनालम्बनाद्भवतीत्याह ॥ द्रागस्मात्तदर्शनमिषुपातज्ञातमात्रतो ज्ञेयम् । एतच्च केवलं तज् ज्ञानं यत्तत्परं ज्योतिः॥१०॥ ___ य. द्राक् शीघ्रमस्मात्प्रस्तुतादनालम्बनात्तद्दर्शनं परतत्त्वदर्शनमिषोः पातस्तद्विषयं ज्ञातमुदाहरणं तन्मात्रादिषुपातज्ञातमात्रतो ज्ञेयं दर्शनम् । एतच्च परतत्त्वदर्शनं केवलं सम्पूर्ण, तदिति तत्प्रसिद्धं ज्ञानं केवलज्ञानमित्यर्थः यत्तत्केवलज्ञानं परं प्रकृष्टं ज्योतिः प्रकाशरूपम् । इषुपातोदाहरणं च । यथा केनचिद्धनुर्द्धरेण लक्ष्याभिमुखे बाणे तदविसंवादिनि प्रकल्पिते | यावत्तस्य बाणस्य न विमोचनं तावत्तत्प्रगुणतामात्रेण तदविसंवादित्त्वेन च समानोऽनालम्बनो योगो यदा तु तस्य बाणस्य विमोचनं लक्ष्याविसंवादिपतनमात्रादेव लक्ष्यवेधकं तदा आलम्बनोत्तरकालभावी तत्पातकल्पः सालम्बनः केवलज्ञानप्र|काश इत्यनयोः साधर्म्यमङ्गीकृत्य निदर्शनम् ॥१०॥
उ० किं पुनरनालम्बनाद्भवतीत्याह । द्रागित्यादि । द्राक् शीघ्रमस्मादनालम्बनयोगात्तदर्शनं परतत्त्वदर्शनमिषुपातस्य बाणपतनस्य ज्ञातमुदाहरणं तन्मात्रतो ज्ञेयम्। एतच्च परतत्त्वदर्शनं केवलं सम्पूर्ण तत्प्रसिद्धं ज्ञानं यत्केवलज्ञानं परं प्रकृष्टं ज्योतिः प्रकाशरूपम् । इषुपातोदाहरणं चैतद् । यथा केनचिद्धनुर्द्धरेण लक्ष्याभिमुख्येन तदऽविसंवादितया च बाणो व्या
Jain Education.inmale
For Private & Personal Use Only
Jainelibrary.org