Book Title: Shodshaka Prakaranam
Author(s): Haribhadrasuri, Buddhisagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीषोडश- प्रकरणम्. ॥८४॥
六六玲六*******公卒中
तत्त्वसंदृष्टिस्तत्त्वदर्शनं यस्य स प्रातिभसञ्जाततत्त्वसंदृष्टिः परिणत एतस्मिन् भवतीत्यवसेयम्, इदमिति प्रत्यक्षीकृतं साल-मटीकाद्वयम्बनध्यानद्वारेण जिनेन्द्ररूपमपरमर्वाग्भागवर्ति परस्मादन्यत्तत्त्वं परमार्थरूपं ध्येयं तद्वर्त्तते । यद्वशतस्तु यद्वशादेव यत्सामादपरतत्त्वसामर्थ्यादित्यर्थः । अस्ति भवत्यतोऽप्यऽपरतत्त्वादन्यत्परतत्त्वं मुक्तिस्थं, इदमुक्तंभवति सर्वस्यापि ध्यान
समेतम्. परस्य योगिनोऽपरतत्त्ववशात्परं तत्त्वमाविर्भवतीति ॥ ६॥
उ० तथा । चरमेत्यादि । चरमावञ्चकयोगात्फलावञ्चकयोगात्सागुक्तात् प्रतिभव प्रातिभमदृष्टार्थविषयो मतिज्ञानविशेपस्तेन सञ्जाता तत्त्वदृष्टियस्य स तथा भवतीति सर्वविशेषणसङ्गता क्रियाध्याहार्या इदमनुपदोक्तफलं सालम्बनध्यानद्वारा | प्रत्यक्षीकृतं जिनेन्द्ररूपमपरं परस्मादन्यदर्वाग्भागवति तत्त्वं परमार्थरूपं ध्येयं तद्वर्त्तते यद्वशतस्तु यदपरतत्त्वसामर्थ्यादतोप्यस्ति जायतेऽतोऽप्यपरत्त्वादप्यन्यत्परतत्त्वं मुक्तिस्थम् । इदमुक्तं भवति । सर्वस्यापि ध्यानपरस्य योगिनोऽपरतत्त्ववशात्परतत्त्वमाविर्भवति ॥ ६॥
कस्मात्पुनः परं तत्त्वमेवं संस्तूयत इत्याह ॥
तस्मिन् दृष्टे दृष्टं तद्भुतं तत्परं मतं ब्रह्म। तद्योगादस्यापि ह्येषा त्रैलोक्यसुन्दरता ॥७॥ य० तस्मिन्परतत्त्वे सिद्धस्वरूपे दृष्टे समुपलब्धे दृष्टं सर्वमेव वस्तु भवति जीवाद्यमूर्तवस्त्वालम्बनस्य बोधस्य सर्व-18
॥८४॥ विषयत्त्वात् । तद्भूतं तदेव सिद्धस्वरूपं भूतं सत्यं संसारिजीवस्वरूपस्य ज्ञानावरणादिकावृतस्य सद्भूततत्त्ववियोगात् । कर्ममलमलिनस्य ह्यात्मनो न भूतं रूपमुपलक्ष्यते । तद्विकारैरुपयमाणत्त्वात्सिद्धस्थरूपस्य तु निरुपद्रवत्त्वाद्भूतमेव
Jain Education international
For Private & Personal Use Only
wwwjanary.org

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230