Book Title: Shodshaka Prakaranam
Author(s): Haribhadrasuri, Buddhisagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 181
________________ साधारणप्रभावं सुरा देवाः सिद्धा विद्यामन्त्रसिद्धादयो योगिनो योगवलसम्पन्नास्तैर्वन्धं वन्दनीयं स्तुत्यं, वरेण्यशब्देनाभिधेयं वाच्यं वरेण्यशब्दाभिधेयं च जिनेन्द्ररूपं ध्येयमित्यभिसम्बध्यते ॥४॥ उ० निर्वाणेत्यादि । निर्वाणसाधनं परमपदप्रापकं भुवि पृथिव्यां भव्यानां योग्यानामग्र्यं प्रधानमतुलमाहात्म्यमसाधारणप्रभावं सुरा देवाः सिद्धा विद्यामन्त्रसिद्धादयो योगिनो योगबलसम्पन्नास्तैर्वन्द्यं वन्दनीयं वरेण्यशब्दैः अर्हच्छम्भुबुद्धपरमेश्वरादिभिरभिधेयं वाच्यं च जिनेन्द्ररूपं ध्येयमिति महावाक्यसम्बन्धः॥४॥ एवमाद्यं सालम्बनध्यानमभिधाय तत्फलमभिधित्सुराह ॥ परिणत एतस्मिन् सति सद्ध्याने क्षीणकिल्विषो जीवः। निर्वाणपदासन्नः शुक्लाभोगो विगतमोहः॥५॥ य. परिणते सात्मीभूते एतस्मिन्सति प्रस्तुते । सुध्याने शोभनध्याने । क्षीणकिल्बिषः क्षीणपापो जीव आत्मा निर्वादाणपदस्यासन्नः प्रत्यासत्तिमान् शुक्लाभोगः शुक्लज्ञानोपयोगो विगतमोहोऽपगतमोहनीयः ॥५॥ उ० एवमाद्यं सालम्बनध्यानमभिधाय तत्फलमभिधित्सुराह । परिणत इत्यादि । परिणते प्राप्तप्रकर्षे एतस्मिन् प्रस्तुते सद्ध्याने शोभनध्याने सति क्षीणकिल्बिषः क्षीणपापो जीव आत्मा निर्वाणपदस्यासन्नो निकटवर्ती शुक्लाभोगः शुक्लज्ञानोदिपयोगः विगतमोहोऽपगतमोहनीयः ॥ ५॥ चरमावश्चकयोगात्प्रातिभसञ्जाततत्त्वसंदृष्टिः । इदमपरं तत्त्वं तद्यद्वशतस्त्वस्त्यतोऽप्यन्यत् ॥६॥ य. चरमावञ्चकयोगात्फलावञ्चकयोगात्सागुक्तात् प्रतिभा मतिस्तत्र भवं प्रातिभं प्रतिभैव वा प्रातिभं तेन सञ्जाता Jain Education NIbhal For Private Personal Use Only A lainelibrary.org

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230