Book Title: Shodshaka Prakaranam
Author(s): Haribhadrasuri, Buddhisagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 180
________________ श्रीषोडश प्रकरणम्. ॥ ८३ ॥ Jain Education उ० तत्र जिनेन्द्ररूपमीदृशं ध्येयमित्याह । सिंहासनेत्यादि । सिंहासने देवनिर्मितसिंहोपलक्षितासने छत्रत्रयसहितक|ल्पपादपस्याधोऽधस्तान्निषण्णं सत्त्वानां प्राणिनामर्थ उपकारस्तस्मिन् सम्यक्प्रवृत्तं देशनया धर्मकथया कान्तं कमनीयमत्यन्तमतिशयेन ॥ २ ॥ पुनरपि कीदृक्तद्रूपमित्याह ॥ आधीनां परमौषधमव्याहतमखिलसम्पदां बीजम् । चक्रादिलक्षणयुतं सर्वोत्तमपुण्यनिर्माणम् ॥ ३ ॥ ० आधीनां शारीरमानसानां पीडाविशेषाणां परमौषधं प्रधानौषधकल्पं तदपनेतृत्त्वेनाऽव्याहतमनुपहतमखिलसम्पदां सर्व्वसम्पत्तीनां वीजं कारणं चक्रादीनि यानि लक्षणानि चक्रस्वस्तिककमलकुलिशादीनि तैर्युतं समन्वितं सर्वोत्तमं च तत्पुण्यं च निम्मयते अनेनेति निर्माणं सर्वोत्तमं पुण्यनिर्माणं यस्येति सर्वोत्तमपुण्यनिम्मितमित्यर्थः ॥ ३ ॥ उ० आधीनामित्यादि । आधीनां मानसीनां पीडानां परमौषधं तदपनेतृत्त्वेनाव्याहतमनुपहतमखिलसम्पदां सर्वसम्पत्तीनां वीजं कारणं चक्रादीनि यानि लक्षणानि चक्रस्वस्तिक कमलकुलिशादीनि तैर्युतं सहितं निम्मयतेऽनेनेति निर्माणं सर्वोत्तमं पुण्यनिर्माणं यस्य तत् सर्वातिशयितादृष्टाकृष्टपरमाणुनिर्मितमित्यर्थः ॥ ३ ॥ तदेव विशिनष्टि ॥ निर्वाणसाधनं भुवि भव्यानामग्र्यमतुलमाहात्म्यम् । सुरसिद्धयोगिवन्द्यं वरेण्यशब्दाभिधेयं च ॥४॥ ० निर्वाणसाधनं परमपदप्रापकं सुखसाधनं वा भुवि पृथिव्यां भव्यानां योग्यानामग्र्यं प्रधानमतुलमाहात्म्यमसा For Private & Personal Use Only टीकाद्वय समेतम्. ॥ ८३ ॥ jainelibrary.org

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230