Book Title: Shodshaka Prakaranam
Author(s): Haribhadrasuri, Buddhisagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 188
________________ श्रीषोडश टीकादय समेतम्. प्रकरणम्. ॥ ८७॥ परयोगस्यापरयोगस्य च फलभूतं नान्यस्वतन्त्रव्यापारभूतमनेन केवलज्ञानेन तत् परं तत्त्वं परमात्मरूपं दृश्यते तत्किं | यदृष्ट्वा दर्शनेच्छा निवर्त्तते सिद्धस्वरूपदर्शने सर्वस्य वस्तुनो दृष्टत्वात् ॥ १२ ॥ । अधुना परतत्त्वमेव स्वरूपेण निरूपयन्निदमाह कारिकाचतुष्टयेन ॥ तनुकरणादिविरहितं तच्चाचिन्त्यगुणसमुदयं सूक्ष्मम्। त्रैलोक्यमस्तकस्थं निवृत्तजन्मादिसडेशम्॥१३॥ य० तनुः शरीरं करणं द्विधान्तःकरणं बहिष्करणं चान्तःकरणं मनो बहिष्करणं पञ्चेन्द्रियाण्यादिशब्दाद् योगाऽध्यहावसायस्थानपरिग्रहस्तविरहितं वियुक्तं तच्च परं तत्त्वमचिन्त्यो गुणसमुदयो ज्ञानादिसमुदयो यस्य तदचिन्त्यगुणसमुदयं सूक्ष्म सूक्ष्मस्वभावमदृश्यत्त्वात्केवलविरहेण त्रैलोक्यस्य मस्तकं सर्वोपरिवर्ती सिद्धिक्षेत्रविभागस्तस्मिंस्तिष्ठतीति त्रैलोक्यमस्तकस्थं निवृत्ता जन्मादयः सङ्केशा यस्मात्तन्निवृत्तजन्मादिसडेन्शम् ॥१३॥ | उ० परतत्त्वस्वरूपमेव कारिकाचतुष्टयेनाह । तनुकरणेत्यादि। तनुः शरीरं करणमन्तर्बहिर्भेदाविधा तत्रान्तःकरणं मनो बहिष्करणं च पञ्चेन्द्रियाण्यादिशब्दाद् योगाध्यवसायस्थानपरिग्रहः तैविरहितं वियुक्तं तच्च परतत्त्वमचिन्त्यगुणानां ज्ञानादीनां समुदयो यस्य तत्तथा सूक्ष्म केवलविरहेणादृश्यत्त्वात् सूक्ष्मस्वभावं त्रैलोक्यमस्तकं सर्वोपरिवती सिद्धिक्षेत्रविभागस्तस्मिंस्तिष्ठति यत्तत्तथा निवृत्ता जन्मादयः सङ्केशा यस्मात्तत्तथा ॥ १३ ॥ ज्योतिः परं परस्तात्तमसो यद्गीयते महामुनिभिः। आदित्यवर्णममलं ब्रह्माद्यैरक्षरं ब्रह्म ॥ १४॥ य० ज्योतिः प्रकाशस्वभावं परं प्रधानं परस्तात्तमसो द्रव्यभावरूपादन्धकारात् यद्गीयते यत्संशब्द्यते महामुनिभिर्जा ***六字一亭亭八卒卒 ॥८॥ Jain Education international For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230