Book Title: Shodshaka Prakaranam
Author(s): Haribhadrasuri, Buddhisagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 179
________________ रसन्निवेशसौन्दर्यादिभिर्गुणैर्यस्य तदनुपमं अतिशयान् सन्दुग्धे प्रपूरयति यत्तदतिशयसन्दोहं यद्वा अतिशयसमूहसम्पन्नमितियावत् ऋद्धिसंयुक्तमृद्धयो नानाप्रकारा आमषौषध्यादयो लब्धयस्ताभिः संयुक्तं समन्वितं ध्येयं ध्यातव्यं जिनेन्द्ररूपं जिनेन्द्रस्वरूपं, सदसि सभायां, समवसरणे, गदद्व्याकुर्वाणं सर्वसत्त्वस्वभाषापरिणामिन्या भाषया तत्परं चैव तस्मादु-1 क्तलक्षणाजिनेन्द्ररूपात्परं मुक्तिस्थं धर्मकायावस्थानन्तरभावि तत्त्वकायावस्थास्वभावं चैव ध्येयं भवति ॥ १॥ म उ० किं पुनस्तत्र ध्याने ध्येयमित्याह । सर्वेत्यादि । सर्वस्मै जगते प्राणिलोकाय हितं हितकारि सदुपदेशनात् नास्त्युपमा सौन्दर्यादिगुणैर्यस्य तत्तथाऽतिशयान् सन्दुग्धे प्रपूरयति यत्तदऽतिशयसन्दोहमतिशयसन्दोहबद्वा ऋद्धयो नानाविधा आमषौषध्यादिलब्धयस्ताभिः संयुक्तं जिनेन्द्ररूपं ध्येयं सदसि सभायां गदत् सर्वसत्त्वस्वभाषापरिणामिन्या भाषया व्याकुर्वाणं तस्मादुक्तलक्षणाजिनेन्द्ररूपात्परं मुक्तिस्थं धर्मकायावस्थानन्तरभावि तत्त्वकायावस्थास्वभावं चैव ध्येयं भवति ॥१॥ तत्राद्यं जिनेन्द्ररूपमधिकृत्य कीदृशं तद्ध्येयमित्याह ॥ | सिंहासनोपविष्टं छत्रत्रयकल्पपादपस्याधः। सत्त्वार्थसम्प्रवृत्तं देशनया कान्तमत्यन्तम् ॥२॥ य० सिंहोपलक्षितमासनं सिंहासनं देवनिर्मितं तत्रोपविष्टं सिंहस्य मृगाधिपतेरासनमवस्थानविशेषरूपमूर्जितमनाकुलं च तेनोपविष्टमितिवा आतपं छादयतीतिच्छत्रं, तेषां त्रयमुपर्युपरिष्टात् , कल्पपादपः कल्पद्रुमः, । छत्रत्रयं च कल्पपाद पश्च तस्याधोधस्तात्, सत्त्वाः प्राणिनस्तेषामर्थ उपकारस्तस्मिन् सम्यक् प्रवृत्तं स्वगतपरिश्रमपरिहारेण देशनया धम्मेकथिया कान्तं कमनीयं मनोज्ञमत्यन्तमतिशयेन ध्येयमिति सम्बन्धः ॥२॥ 4505CHAR Jain Education int i nal For Private Personal Use Only K ainelibrary.org

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230