________________
श्रीषो. १४
Jain Education In
करणं । योगिनां कुले यज्जन्म तस्य बाधकमनेन योगिकुलजन्मापि जन्मान्तरे न लभ्यत इति कृत्वा योगिकुलजन्मबाधकमलमत्यर्थमेतत्तद्विदामिष्टं योगविदामभिमतम् ॥ ५ ॥
उ० उद्वेग इत्यादि । उद्वेगे चित्तदोषे जाते विद्वेषाद्योगविषयादस्य योगस्य कथञ्चित्करणं विष्ठिसमं राजविष्ठिकल्पं पापेन एतच्चैवंविधं करणं योगिनां कुले यज्जन्म तस्य बाधकम् । उद्विग्नः क्रियाकर्ता योगिकुलं जन्मान्तरे न लभत इति कृत्वाऽलमत्यर्थं तद्विदां योगविदामिष्टमभिमतम् ॥ ५ ॥
क्षेपेऽपि चाप्रबन्धादिष्टफलसमृद्धये न जावेतत् । नासकृदुत्पाटनतः शालिरपि फलावहः पुंसः ॥ ६ ॥
० क्षेपेऽपि च चित्तदोषेऽप्रबन्धात्प्रबन्धत्वाभावाच्चित्तस्य इष्टफलसमृद्धये विवक्षितफलसमृद्ध्यर्थं योगनिष्पत्तये न जातु कदाचित्करणं चित्तं वा भवति । किमित्यन्यत्रान्यत्र चित्तप्रेक्षेपे फलसमृद्धिर्न भवतीत्याह । नासकृदनेकशः । उत्पाटनादुत्खननाच्छालिरपि धान्यविशेषः फलावहः फलसंयुक्तः पुंसः पुरुषस्य यतो भवति ॥ ६ ॥
उ० क्षेपेऽपि चेत्यादि । क्षेपेऽपि चित्तदोषेऽप्रवन्धाच्चित्तस्य शिथिलमूलत्वादिष्टफलस्य योगनिष्पत्तिरूपस्य समृद्धयेऽभ्युदयाय न जातु कदाचिदेतत्करणं भवति । अत्र दृष्टान्तमाह । न असकृदनेकश उत्पादनात् उत्खननाच्छालिरपि धान्य| विशेषः फलावहः फलप्रदः पुंसः पुरुषस्य भवति ॥ ६॥
उत्थाने निर्वेदात्करणमकरणोदयं सदैवास्य । अत्यागत्यागोचितमेतत्तु खसमयेऽपि मतम् ॥ ७ ॥ ० उत्थाने चित्तदोषे सत्यप्रशान्तवाहितायां निर्व्वेदाद्धेतोः करणं निष्पादनमकरणोदयं भाविकालमाश्रित्याकरणस्यै
For Private & Personal Use Only
jainelibrary.org