Book Title: Shodshaka Prakaranam
Author(s): Haribhadrasuri, Buddhisagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 158
________________ श्रीषोडश टोकाद्वय ल प्रकरणम्. समेतम्. ॥७२॥ यतेः साधोः परार्थकरणं ज्ञेयं यतिना गृह्यमाणस्याहारवस्त्रपात्रादेदातुः पुण्यनिवन्धनत्त्वेन परोपकारहेतुत्त्वाद्विशुद्धयोगप्रवृत्तेश्चोचितप्रवृत्तिहेतुसामायिकशक्त्या तदर्थना नियतत्त्वादिति द्रष्टव्यम् ॥५॥ | इति कर्त्तव्यतामाह ॥ सर्वत्रानाकुलता यतिभावाव्ययपरा समासेन । कालादिग्रहणविधौ क्रियेतिकर्तव्यता भवति ॥६॥ ___ य. सर्वत्र सर्वस्मिन्ननाकुलता निराकुलता अत्त्वरा यतेर्भावः सामायिकरूपस्तस्याऽव्ययपरा व्ययाभावनिष्ठा । अनाकुलतया यतिभावाव्ययपरा न किञ्चिद्यतिभावायेत्यपगच्छतीति कृत्वा तथोच्यते । विशेष्यत्त्वात् क्रियाऽभिसम्बध्यते । समासेन सङ्केपेण कालादिग्रहणविधौ कालस्वाध्यायादिग्रहणविधिविषया। क्रिया चेष्टा स्वशास्त्रप्रसिद्धा इतिकर्तव्यता भवति इत्येवंरूपा कर्तव्यानां भावः कर्त्तव्यतोच्यते ॥ ६॥ | उ० इतिकर्तव्यतामाह । सर्वेत्यादि । सर्वत्र सर्वस्मिन् कालादिग्रहणविधी कालस्वाध्यायादिग्रहणाचारे कालविभागप्रतिनियते क्रिया योगप्रवृत्तिः समासेन सङ्केपेणेतिकर्तव्यता भवति रात्रिन्दिवनियतक्रमशुद्धक्रियासन्तानस्येतिकर्तव्यतापदार्थत्त्वात्कीदृशी साऽनाकुलतयाऽत्वरया यतिभावस्य सामायिकरूपस्याव्ययपराऽव्यपगमनिष्ठा बहुकालसाध्यक्रियायां त्वरया ह्यप्रमत्तत्त्वलक्षणो यतिभावो व्येतीत्येतद्विशेषणमुक्तम् ॥ ६॥ उक्ता साधुसच्चेष्टाऽधुना तद्वतो मैत्र्यादिसिद्धिमाह ॥ इति चेष्टावत उच्चैर्विशुद्धभावस्य सद्यतेः क्षिप्रम्। मैत्रीकरुणामुदितोपेक्षाः किल सिद्धिमुपयान्ति ॥७॥ ॥७२॥ Jain Education HAI For Private Personal Use Only Kajainelibrary.org स्कू

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230