Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 124
________________ सदैव पीमिता ये ते तथा तेषां । हन्तेति खेदे । यया परिणामशुद्ध्या । तस्मात्प्रोक्तस्वरूप निगोदान्धकूपात् । जीवाः साधा| रणशरीरिप्राणिनः । विनिर्यान्ति प्रत्येकत्ववादरत्वप्रापणेन निर्गच्छन्ति । तादृशी शुभोदयजनिता ततो निर्गमयोग्या शुद्धा परिणामशुद्धिः वर्धमानपुण्योदयजनिता तानपेक्ष्याखं सुन्दरपरिणतिधारा कुतः स्यात् कस्माद्भवेत् ? साधनसामय्यावान्नैव स्यात् । तस्माद्बोधिदुर्लनेत्यर्थः ॥ २ ॥ ततो निर्गतानामपि स्थावरत्वं त्रसत्वं पुनर्दुर्लभं देहनाजाम् । त्रसत्वेऽपि पञ्चादपर्याप्त संज्ञिस्थिरायुष्यवद्दुर्लभं मानुषत्वम् ॥ " 1 व्याख्या - ततो निगोदराशितः । निर्गतानां कथञ्चिदकस्मात काम निर्जराचला कृतानामपि । देहनाजां प्राणिनां | पृथिव्यादित्वमेव लभते । ततः स्थावरत्वमेव भवति प्रायेण । तस्मात् त्रसत्वं पुनर्लनं त्रसत्वं दित्रिचतुःपञ्चेन्द्रियत्वं तत्पुनः प्रत्येकशरीरित्वे प्राप्तेऽपि दुर्लनं दुष्प्रापं जवदसंख्योत्सर्पिण्यवसर्पिणीप्रमितपृथिव्यादीनां काय स्थितेरन्तरितत्वात् । त्रसत्वानावे बोधिलाजाजावोऽतोऽपि दुर्लभं । त्रसत्वेऽपि त्रसत्वं प्रोक्तरूपं तत्प्राप्ते सत्यपि यथोत्तरं क्रमेण पञ्चा| पर्याप्त संज्ञिस्थिरायुष्यवत् दुर्लभं वञ्चब्दः प्रत्येकं संवन्धनीयः, ततः पञ्चाक्षवत् पञ्च स्पर्शनादीन्यकाणीन्द्रियाणि यत्र | जन्मनि तत्पञ्चादवदित्येवं सर्वत्र ज्ञेयं, पर्याप्तय आदारादिपविधाः पूरिता यत्र तत्पर्याप्तिवत्, संज्ञा दीर्घकालिक कार्यवि चारकृन्मनोज्ञानवद्यद्भवति तत्संज्ञि, स्थिरायुष्यवत् स्थिरं दीर्घनिविक निश्चलमायुर्जीवितं विद्यते यत्र तत्तथाविधं त्रसत्वं 1

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181