Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 165
________________ उपसंहारमाद- शृणुतैकं विनयोदितवचनं नियतायतिदितरचनम् । रचयत सुकृतसुखशतसन्धानं शान्तसुधारसपानं रे, सु०॥ ८ ॥ ॥ इति श्रीशान्तसुधारसगेयकाव्ये कारुण्यभावनाविभावतो नाम पञ्चदशः प्रकाशः ॥ व्याख्या - जो जव्या नियतायतिहितरचनं नियतं निश्चितं अवश्यंभावेनेति यावत् श्रायत्यामागामिनि काले फलप्रापणे तिरचनं हितमात्मनः कल्याणं तस्य रचना निष्पादनं यस्मिंस्तत्तथाभूतं । एकमद्वितीयं । विनयोदितं विनयेन निनृतवादिनाऽचलवचनवक्त्राऽर्हता उदितं प्रोक्तं यदचनं उपदेशस्तत् शृणुत । सुकृतसुखशतसन्धानं सुकृतानि पुण्यानि सदाचरणानि च सुखानि नरामरमोक्षशर्माणि तेषां शतानि सुप्रभूततरसंख्यानि: संख्येयानि तेषां यत्सन्धानं श्रात्मनि संयोजनं तत्तथाभूतगुणं । शान्तसुधारसपानं शान्तो रागाद्यजावजव विरक्तिमोक्षा जिलाषादिमान् जीवस्वजाः स एवाजरामरका रिसुधारसस्तस्य पानं प्रेमनरेणास्वादनं तत् रचयत कुरुतेत्यर्थः ॥ ८ ॥ इति श्री तपागठीयसंविग्नशाखीयपरममुनिश्री बुद्धि विजय मुख्य शिष्य श्री मुक्तिविजयसतीर्थ्य तिलकमुनिश्री वृद्धिविजचरणयुगसेविना पंकितगंजीरविजयगपिना विरचितायां श्री शान्तसुधार सटीकायां करुणाभावनाविभावनो नाम पञ्चदशः प्रकाशः ॥

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181