Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
व्याख्या - शत्रुजना ये मयि वैरबुद्धियुक्ताः प्राणिनस्तेऽपि । मत्सरमपहाय विरोधमानसं धियं च विहाय । समे समजावे प्राप्ताः सन्तः सुखिनः सन्तु । श्रमी शत्रुजना अपि । शिवसौख्यगृहाय मोदक सुखजावसदनप्राप्तये गन्तुं यातुं | समातुराः मनसोऽभिलाषिणः सन्तु जयन्त्वित्यर्थः ॥ ५ ॥
सकृदपि यदि समतालवं हृदयेन विहन्ति । विदितरसास्तत इह रतिं खत एव वहन्ति, वि० ॥ ६ ॥
व्याख्या - यदि यदा संसारिणः सत्त्वाः कथमपि सकृदपि एकशोऽप्यास्तामनेकवारं । समतालवं समतारसस्य लवं लेशं विन्दुमात्रमिति यावत् । हृदयेन मनोजावेन । लिहन्ति रसास्वादं लभन्ते । तत एकदास्वादनतो विदितरसा | विज्ञातसमतासुखरसास्वादाः सन्तः । इह समतारसे । स्वत एव परप्रेरणा निरपेक्षस्वस्वभावतः स्वयमेव रतिं प्रीतिं वहन्ति प्राप्नुवन्तीत्यर्थः ॥ ६ ॥
किमुत कुमतमदमूर्द्विता इरितेषु पतन्ति । जिनवचनानि कथं दहा न रसाडुपयन्ति, वि० ॥ ७ ॥
व्याख्या-उत वितर्के विचारयेऽहं । किमिति किंनामकं तत्कारणं जविष्यति यहुद्दिश्यैते जनाः कुमतमदमूर्बिता दुरितेषु पतन्ति कुमतानि कुत्सितानि पापहेतुकान्यज्ञानादिमयत्वेन निन्दनीयानीति यावत्, मतान्यविचारितया संमतिनूतरवस्वदर्शनपकाः तत्प्राप्तेर्मदो वयमेव धर्मज्ञा इत्यादिरूपो जातोऽनिमानः । तेन मूर्तिता मोहिताः सन्तः । 5तेषु पापकर्मवन्धेषु तत्फलभूतेषु बहुलसंसारित्वनरकादिषु च । पतन्ति हीनत्वाधोगत्यादिषु समुत्तरन्ति । हहा महाकष्टं ।

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181