SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ व्याख्या - शत्रुजना ये मयि वैरबुद्धियुक्ताः प्राणिनस्तेऽपि । मत्सरमपहाय विरोधमानसं धियं च विहाय । समे समजावे प्राप्ताः सन्तः सुखिनः सन्तु । श्रमी शत्रुजना अपि । शिवसौख्यगृहाय मोदक सुखजावसदनप्राप्तये गन्तुं यातुं | समातुराः मनसोऽभिलाषिणः सन्तु जयन्त्वित्यर्थः ॥ ५ ॥ सकृदपि यदि समतालवं हृदयेन विहन्ति । विदितरसास्तत इह रतिं खत एव वहन्ति, वि० ॥ ६ ॥ व्याख्या - यदि यदा संसारिणः सत्त्वाः कथमपि सकृदपि एकशोऽप्यास्तामनेकवारं । समतालवं समतारसस्य लवं लेशं विन्दुमात्रमिति यावत् । हृदयेन मनोजावेन । लिहन्ति रसास्वादं लभन्ते । तत एकदास्वादनतो विदितरसा | विज्ञातसमतासुखरसास्वादाः सन्तः । इह समतारसे । स्वत एव परप्रेरणा निरपेक्षस्वस्वभावतः स्वयमेव रतिं प्रीतिं वहन्ति प्राप्नुवन्तीत्यर्थः ॥ ६ ॥ किमुत कुमतमदमूर्द्विता इरितेषु पतन्ति । जिनवचनानि कथं दहा न रसाडुपयन्ति, वि० ॥ ७ ॥ व्याख्या-उत वितर्के विचारयेऽहं । किमिति किंनामकं तत्कारणं जविष्यति यहुद्दिश्यैते जनाः कुमतमदमूर्बिता दुरितेषु पतन्ति कुमतानि कुत्सितानि पापहेतुकान्यज्ञानादिमयत्वेन निन्दनीयानीति यावत्, मतान्यविचारितया संमतिनूतरवस्वदर्शनपकाः तत्प्राप्तेर्मदो वयमेव धर्मज्ञा इत्यादिरूपो जातोऽनिमानः । तेन मूर्तिता मोहिताः सन्तः । 5तेषु पापकर्मवन्धेषु तत्फलभूतेषु बहुलसंसारित्वनरकादिषु च । पतन्ति हीनत्वाधोगत्यादिषु समुत्तरन्ति । हहा महाकष्टं ।
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy