Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
निर्ग्रन्थास्तेऽपि धन्या गिरिगहनगुहागरान्तर्निविष्टा धर्मध्यानावधानाः समरसहिताः पक्षमासोपवासाः । येऽन्येऽपि ज्ञानवन्तः श्रुत विततधियो दत्तधर्मोपदेशाः
शान्ता दान्ता जिनादा जगति जिनपतेः शासनं नास्यन्ति ॥ ३ ॥ व्याख्या-ये निर्ग्रन्था मुनयः गिरिगहनगुहागहरान्तर्निविष्टाः गिरी पर्वतशिखरे गहने साधारणजनमुष्प्रवेशे वनदेशे । गुहायां सिंहादिश्वापदाकाणे वननिकुञ्जे गह्वर गिरिगर्त पन्धे कृते एतेषामन्तमध्ये निविष्टाः समासीनाः । ये च धर्मध्यानावधाना धर्मध्याने दत्तोपयोगाः । ये च सनरससुहिताः स्वात्मरूपे तृप्ताः। ये च पक्षमासोपवासाः पश्तपो मासतपः इत्यादितपःकृत्ये तत्पराः। येऽन्येऽपि पूर्वोक्तेन्यो व्यतिरिक्ताः । ज्ञानवन्तोऽवध्यादिज्ञानं प्राप्ताः । श्रुतविततधियः श्रुतेन । बादशांगचतुर्दशपूर्वदशपूर्वादिना वितता विशाला धीवुधिर्येषां ते । तथा ये च शान्ता जितकपायाः, दान्ता दमितान्तःकरणाः, जिताका जितेन्द्रियगणाः, प्रोक्तगुणनाजः सन्तः । जगति गुमंडले । जिनपतेर्जिनेश्वरस्य । शासनं तीर्थ ।। नासयन्ति प्रजावाढ्यत्वेन दीपयन्ति तेऽपि सर्वे धन्या इत्यर्थः ॥३॥
दानं शीलं तपो ये विधति गृहिणो नावनां जावयन्ति धर्म धन्याश्चतुर्धा श्रुतसमुपचितश्रझयाराधयन्ति ।

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181