SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ निर्ग्रन्थास्तेऽपि धन्या गिरिगहनगुहागरान्तर्निविष्टा धर्मध्यानावधानाः समरसहिताः पक्षमासोपवासाः । येऽन्येऽपि ज्ञानवन्तः श्रुत विततधियो दत्तधर्मोपदेशाः शान्ता दान्ता जिनादा जगति जिनपतेः शासनं नास्यन्ति ॥ ३ ॥ व्याख्या-ये निर्ग्रन्था मुनयः गिरिगहनगुहागहरान्तर्निविष्टाः गिरी पर्वतशिखरे गहने साधारणजनमुष्प्रवेशे वनदेशे । गुहायां सिंहादिश्वापदाकाणे वननिकुञ्जे गह्वर गिरिगर्त पन्धे कृते एतेषामन्तमध्ये निविष्टाः समासीनाः । ये च धर्मध्यानावधाना धर्मध्याने दत्तोपयोगाः । ये च सनरससुहिताः स्वात्मरूपे तृप्ताः। ये च पक्षमासोपवासाः पश्तपो मासतपः इत्यादितपःकृत्ये तत्पराः। येऽन्येऽपि पूर्वोक्तेन्यो व्यतिरिक्ताः । ज्ञानवन्तोऽवध्यादिज्ञानं प्राप्ताः । श्रुतविततधियः श्रुतेन । बादशांगचतुर्दशपूर्वदशपूर्वादिना वितता विशाला धीवुधिर्येषां ते । तथा ये च शान्ता जितकपायाः, दान्ता दमितान्तःकरणाः, जिताका जितेन्द्रियगणाः, प्रोक्तगुणनाजः सन्तः । जगति गुमंडले । जिनपतेर्जिनेश्वरस्य । शासनं तीर्थ ।। नासयन्ति प्रजावाढ्यत्वेन दीपयन्ति तेऽपि सर्वे धन्या इत्यर्थः ॥३॥ दानं शीलं तपो ये विधति गृहिणो नावनां जावयन्ति धर्म धन्याश्चतुर्धा श्रुतसमुपचितश्रझयाराधयन्ति ।
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy