Book Title: Shankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text ________________
४८०
सर्ववेदान्तसिद्धान्तसारसंग्रहः. तथापि किंचिद्वक्ष्यामि सादृश्यं शणु तत्परः । असन्तनिर्मलस्सूक्ष्मः आत्माऽयमतिभास्वरः ॥ ४७८ बुद्धिस्तथैव सत्त्वात्मा साभासा भास्वराऽमला । सान्निध्यादात्मवद्भाति सूर्यवत् स्फटिको यथा ॥ आत्मामासात्ततो बुद्धिः बुद्धयाभासं ततो मनः । अक्षाणि मनआभासान्याक्षाभासमिदं वपुः । अत एवात्मताबुद्धिः देहाक्षादावनात्मनि ॥ * ........................................................ धीरशुद्धसत्त्वप्रधाना माया यत्र त्वस्य नास्त्यल्पभावः। सत्त्वस्यैवोत्कृष्टता तेन बन्धः नो विक्षेपस्तत्कृतो लेशमात्रः॥४८१ सर्वज्ञोऽप्रतिवद्धबोधविभवस्तेनैव देवस्स्वयं - मायां स्वामवलम्ब्य निश्चलतया स्वच्छन्दवृत्तिः प्रभुः । सृष्टिस्थित्यदनमवेशव्यपनव्यापारमात्रेच्छया
कुर्वन् क्रीडति तद्रजस्तम उभे संस्तभ्य शक्त्या स्वया ॥४८२ तस्मादावृतिविक्षेपौ किंचित्कर्तुं न शक्नुतः । स्वयमेव स्वतन्त्रोऽसौ तत्प्रवृत्तिनिरोधयोः ॥ ४८३ तमेव साधीकति श्रुतिर्वक्ति महेशितुः । निग्रहानुग्रहे शक्ति आवृतिक्षेपयोर्यतः ॥ रजसस्तमसश्चैव प्राबल्यं सत्त्वहानतः । जीवोपाधौ ततो जीवे तत्कार्यं बलवत्तरम् ॥ ४८५ तेन बन्धोऽस्य जीवस्य संसारोऽपि च तत्कृतः । संप्राप्तस्सर्वदा यत्र दुःखं भूयस्स ईक्षते ॥ एतस्य संमृतेर्हेतुः अध्यासोर्थविपर्ययः । अध्यासमूलमज्ञानं आहुरावृतिलक्षणम् ॥
*अत्र मातृकाकोशे २० श्लोकाः पतिताः इत्यवगम्यते.
४८४
४८६
४८७
Loading... Page Navigation 1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230