Book Title: Shankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore

View full book text
Previous | Next

Page 203
________________ १९० सना ॥ सर्ववेदान्तसिद्धान्तसारसंग्रहः. न स्वप्नजागरणयोरुभयोविशेषः संदृश्यते कचिदपि भ्रमजैविकल्पैः। यदृष्टदर्शनमुखैरत एव मित्थ्या स्वप्नो यथा ननु तथैव हि जागरोऽपि॥ अविद्याकार्यतस्तुल्यौ द्वावपि स्वप्नजागरौ । दृष्टदर्शनदृश्यादिकल्पनोभयतस्समा ॥ ७४५ अभाव उभयोस्सुप्तौ सर्वैरप्यनुभूयते । . .. न कश्चिदनयोर्भेदः तस्मान्मित्थ्यात्वमर्हतः ॥ ७४६ भ्रान्त्या ब्रह्मणि भेदोऽयं सजातीयादिलक्षणः । कालत्रयेऽपि हे विद्वन वस्तुतो नैव कश्चन ॥ ७४७ यत्र नान्यत्पश्यतीति श्रुतिद्वैतं निषेधति । कल्पितस्य भ्रमाद्भन्नि मित्थ्यात्वावगमाय तत् ॥ ७४८ यतस्ततो ब्रह्म सदद्वितीयं विकल्पशून्यं निरुपाधि निर्मलम् । निरन्तरानन्दघनं निरीहं निरास्पदं केवलमेकमेव ॥ ७४९ नैवास्ति काचन भिदा न गुणप्रतीतिः नो वाक्प्रवृत्तिरापि वा न मनःप्रवृत्तिः । यत्केवलं परमशान्तमनन्तमाद्यं । आनन्दमात्रमवभाति सदद्वितीयम् ॥ यदिदं परमं सत्यं तत्त्वं सच्चित्सुखात्मकम् । अजरामरणं नित्यं सत्यमेतद्वचो मम ॥ ७५१ न हि त्वं देहोऽसावसुरपि च वाऽप्यक्षनिकरो ___ मनो वा बुद्धिर्वा कचिदपि तथाऽहंकृतिरपि । न चैषां संघातस्त्वमु भवसि विद्वन् शृणु परं यदेतेषां साक्षिस्फुरणममलं तत्वमसि हि ॥ ७५२ यज्जायते वस्तु तदेव वर्धते तदेव मृत्युं समुपैति काले । जन्मैव तेनास्ति तथैव मृत्युः नास्त्येव नित्यस्य विभोरजस्य ॥७५३

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230