Book Title: Shankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore

View full book text
Previous | Next

Page 221
________________ सर्ववेदान्तसिखान्तसारसमहः. स्वप्नसुप्तिः, अतिसूक्ष्मविमर्शन स्वधीवृत्तिरचञ्चला । विलीयते यदा बोधे स्वममुप्तिरितीर्यते ॥ सुप्तिजाग्रत्. चिन्मयाकारमतयो धीवृत्तिप्रसरैर्गतः । आनन्दानुभवो विद्वन् सुप्तिजाग्रदितीर्यते ॥ सुप्तिस्वप्नः. वृत्तौ चिरानुभूतान्तरानन्दानुभवस्थितौ । समात्मतां यो यासेष सुप्तिस्वप्नइतीर्यते ॥ सुप्तिसुप्तिः. दृश्यधीवृत्तिरेतस्य केवलीभावभावना । परं बोधैकतावाप्तिः मुप्तिसुप्तिरितीर्यते ॥ तुर्याख्या. परब्रह्मवदाभाति निर्विकारैकरूपिणी । सर्वावस्थासु धारैका तुर्याख्या परिकीर्तिता ॥ इसवस्थासमुल्लासं विमृशन् मुच्यते मुखी । शुभेच्छादित्रयं भूमिभेदाभेदयुतं स्मृतम् ॥ यथावतेंदबुद्धयेदं जगज्जाग्रदितीर्यते । अद्वैते स्थैर्यमायाते द्वैते च प्रशमं गते ॥ पश्यन्ति स्वप्नवल्लोकं तुर्यभूमिसुयोगतः । पञ्चमी भूमिमारुह्य मुषुप्तिपदनामिकाम् ॥ . शान्ताशेषविशेषांशाः तिष्ठेदद्वैतमात्रके। अन्तर्मुखतया निसं षष्ठी भूमिमुपाश्रितः ॥ ९१७

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230