Book Title: Shankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore

View full book text
Previous | Next

Page 219
________________ २०६ सर्ववेदान्तसिद्धान्तसारसंग्रहः. श्रीगुरुः ज्ञानभूमिकालक्षणम्. वक्ष्ये तुभ्यं ज्ञानभूमिकाया लक्षणमादितः । ज्ञाते यस्मिन् त्वया सर्व ज्ञातं स्यात्पृष्टमद्य यत् ॥ ९१३ ज्ञानभूमिश्शुभेच्छा स्यात् प्रथमा समुदीरिता । विचारणा द्वितीया तु तृतीया तनुमानसी ॥ ९१४ सत्त्वापत्तिश्चतुर्थी स्यात् ततस्संसक्तिनामिका । पदार्थाभावना षष्ठी सप्तमी तुर्यगा स्मृता ॥ ९१५ शुभेच्छा. स्थितः किं मूढ एवास्मि प्रेक्ष्योऽहं शास्त्रसज्जनैः । वैराग्यपूर्वमिच्छति शुभेच्छा चोच्यते बुधैः ॥ . विचारणा. शास्त्रसज्जनसम्पर्कवैराग्याभ्यासपूर्वकम् । सदाचारप्रवृत्तिर्या प्रोच्यते सा विचारणा ॥ . ९१७ तनुमानसी. विचारणाशुभेच्छाभ्यां इन्द्रियार्थेष्वरक्तता। यत्र सा तनुतामेति प्रोच्यते तनुमानसी ॥ सत्त्वापत्तिः. भूमिकात्रितयाभ्यासात् चित्तेर्थविरतेर्वशात् । सत्त्वात्मनि स्थिते शुद्धे सत्त्वापत्तिरुदाहृता ॥ संसक्तिनामिका. दशाचतुष्टयाभ्यासात् असंम्सर्गफला तु या। रूढसत्त्वचमत्कारः प्रोक्ता संसक्तिनामिका ॥

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230