Book Title: Shankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text ________________
सर्ववेदान्तसिद्धान्तसारसंग्रहः.
१०५
प्रशमितकरणस्समाहितात्मा कचिदचलाकृतिरात्मनिष्ठितोऽभूत् ॥
बहुकालं समाधाय स्वस्वरूपे तु मानसम् । उत्थाय परमानन्दात् गुरुमे पुनर्मुदा ॥
प्रणामपूर्वकं धीमान् सगद्गदमुवाच ह । नमो नमस्ते गुरवे निसानन्दस्वरूपिणे । मुक्तसङ्गाय शान्ताय सक्ताहन्ताय ते नमः । दमाधाने नमो भूने महिम्नः पारमस्यते । नैवास्ति यत्कटाक्षण ब्रह्मैवाभवमद्वयम् ॥
किं करोमिकधा ।
मयि सुख........ ॥*
निसानन्दस्वरूपोऽहं आत्माऽहं त्वदनुग्रहात् । पूर्णोऽहमनवद्योऽहं केवलोऽहं च सद्गुरो ॥
अकर्ताऽहमभोक्ताsहं अविकारोऽहमक्रियः । आनन्दघनं एवाऽहं असङ्गोऽहं सदाशिवः ॥ त्वत्कटाक्षशशि........क्षणात् । णम् ॥*
छायया.
न साक्षिण........ प्रदीपवत् ।
वेर्यथा कर्मणि........ चिदात्मनो मे ॥ *
इत्युक्त्वा स गुरुं स्तुत्वा प्रश्रयेण कृता नतिः । मुमुक्षोरुपकाराय प्रष्टव्यांशमपृच्छत ॥
जीवन्मुक्तस्य भगवन् अनुभूतेश्च लक्षणम् । विदेहमुक्तस्य च मे कृपया ब्रूहि तत्त्वतः ॥
1
* एतच्चिह्नाङ्किताः श्लोकाः मातृकाकौशे चैवमेवापूर्णा दृश्यन्ते,
८९३
८९४
८९५
८९६
८९७
८९८
९०९
९१०
९११
९१२
Loading... Page Navigation 1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230