Book Title: Shankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore

View full book text
Previous | Next

Page 220
________________ सर्ववेदान्तासैखान्तसारसंग्रहः पदार्थाभावना भूमिकापञ्चकाभ्यासात् स्वात्मारामतया भृशम् । अभ्यन्तराणां वाह्यानां पदार्थानामभावनात् ॥ परमयुक्तेन चिरप्रयत्नेनावबोधनम् । पदार्थाभावना नाम षष्ठी भवति भूमिका || तुर्यगा. षडुमिकाचिराभ्यासात् भेदस्यानुपलम्भनात् । यत्स्वभावैकनिष्ठत्वं सा ज्ञेया तुर्यगा गतिः ॥ जाग्रज्जाग्रत्. . इदं ममेति सर्वेषु दृश्यभावेष्वभावना | जाग्रज्ज ग्रदितिप्राहुः महान्तो ब्रह्मवित्तमाः ॥ जाग्रत्स्वप्नः. विदित्वा सच्चिदानन्दे मयि दृश्यपरम्पराम् । नामरूपपरित्यागो जाग्रत्स्वप्नस्स ईरितः ॥ जाग्रत्सुप्तिः. परिपूर्णचिदाकाशे माय वोधात्मतां विना । न किञ्चिदन्यदस्तीति जाग्रत्सुप्तिस्समीर्यते ॥ स्वप्नजाग्रत्. मूलाज्ञानविनाशेन कारणाभासचेष्टितैः । बन्धो न मेsतिस्वल्पोऽपि स्वप्नजाग्रादितीर्यते ॥ स्वप्न स्वप्नः कारणाज्ञाननाशाद्यत् द्रष्टृदर्शनदृश्यता । न कार्यमस्ति तज्ज्ञानं स्वस्वप्रस्समीर्यते ॥ ૨૦૭ ९२१ ९२२ ९२३ ९२४ ९२५ ९२६ ९२७ ९२८

Loading...

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230