Book Title: Shankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text ________________
सर्ववेदान्तसिद्धान्तसारसंग्रहः. जन्माप्ययक्षुद्भयतृट्छ्रमादीन आरोपयत्यात्मनि तस्य धर्मान् ॥११ विक्षेपशक्या परिचोद्यमानः कर्माणि कुर्वन्नुभयात्मकानि । भुञ्जान एतत्फलमप्युपात्तं परिभ्रमसेव भवाम्बुराशौ ॥ १२ अध्यासदोपात्समुपागतोऽयं संसारबन्धः प्रबलपतीचः।। यद्योगतः क्लिश्यति गर्भवासः जन्माप्ययक्लेशभयैरजस्रम् ॥१३ अध्यासो नाम खल्वेष वस्तुनो योऽन्यथाग्रहः । स्वाभाविकभ्रान्तिमूलं संसृतेरादिकारणम् ॥ सर्वानर्थस्य तद्बीजं योऽन्यथाग्रह आत्मनः । ततस्संसारसंपातः सन्ततक्लेशलक्षणः ॥ अध्यासादेव संसारः नष्टेऽध्यासे न दृश्यते । तदेतदुभयं स्पष्टं पश्य त्वं बद्धमुक्तयोः ॥ बद्धं प्रवृत्तितो विद्धि मुक्तं विद्धि निवृत्तितः । प्रवृत्तिरेव संसारः निवृत्तिर्मुक्तिरिष्यते ॥ आत्मनस्सोऽयमध्यासो मिथ्याज्ञानपुरस्सरः । .. असत्कल्पोपि संसारं तनुते रज्जुसर्पवत् ॥ उपाधियोगसाम्येऽपि जीववत्परमात्मनः । उपाधिभेदान्नो बन्धः तत्कार्यमाप किंचन ॥ अस्योपाधिः शुद्धसत्त्वप्रधाना........
२०५तमपुटे एतचिह्नाङ्कितः पूर्णः श्लोकःकिं करोमि क गच्छामि किं गृह्णामि त्यजामि किम् ॥ माय मुखबोधपयोधौ महति ब्रह्माण्डबुद्बुदसाहस्रे । मायामयेन मरुता भूत्वाभूत्वा पुनस्तिरोधत्ते ॥
Loading... Page Navigation 1 ... 225 226 227 228 229 230