Book Title: Shankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore

View full book text
Previous | Next

Page 206
________________ ७७४ सर्ववेदान्तसिद्धान्तसारसंग्रहः. . १९३ समाधेरन्तरायाः के सर्वमेतन्निरूप्यताम् ॥ ७७३ श्रीगुरुः अधिकारिनिरूपणम्, मुख्यगौणादिभेदेनं विद्यन्तेऽत्राधिकारिणः । तेषां प्रज्ञानुसारेणाखण्डा वृत्तिरुदेष्यते ॥ ७७४ श्रद्धाभक्तिपुरस्सरेण विहितेनैवेश्वरं कर्मणा सन्तोष्यार्जिततत्प्रसादमहिमा नन्मान्तरेष्वेव यः । निसानिसविवेकतीव्रविरतिन्यासादिभिस्साधनैः . युक्तस्स श्रवणे सतामभिमतो मुख्याधिकारी द्विजः ॥७७५ अध्यारोपापवादक्रममनुसरता देशिकेनात्र वेत्रा - वाक्यार्थे बोध्यमाने सति सपदि सतश्शुद्धबुद्धरमुष्य । निसानन्दाद्वितीयं निरुपमममलं यत्परं तत्त्वमेकं तद्ब्रह्मवाहमस्मीत्युदयति परमाखण्डताकारवृत्तिः ॥ ७७६ अखण्डाकारवृत्तिस्सा चिदाभाससमन्विता । आत्माभिन्नं परं ब्रह्म विषयीकृस केवलम् ॥ बाधते तद्गताज्ञानं यदावरणलक्षणम् । अखण्डाकारया वृत्त्या त्वज्ञाने बाधिते सति ॥ तत्कार्यं सकलं तेन समं भवति बाधितम् । तन्तुदाहे तु तत्कार्यपटदाहो यथा तथा ॥ ७७९ तख्य कार्यतया जीववृत्तिर्भवति बाधिता । उपप्रभा यथा सूर्य प्रकाशयितुमक्षमा ॥ तद्वदेव चिदाभासचैतन्यं वृत्तिसंस्थितम् । स्वप्रकाशं परं ब्रह्म प्रकाशयितुमक्षमम् ॥ प्रचण्डातपमध्यस्थदीपवनष्टदीधितिः । iy-25 ७७७ ७७८ ७८०

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230