Book Title: Shankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text ________________
१९६
सर्ववेदान्तसिद्धान्तसारसंग्रहः.
यथा तथैव सा वृत्तिः ब्रह्ममात्रता स्थिता | पृथङ्क भाति ब्रह्मैवाद्वितीयमवभासते ||
ज्ञात्रादिकल्पनाभावात् मतोऽयं निर्विकल्पकः । वृत्तेरसद्भावबाधाभ्यां उभयोर्भेद इष्यते ॥
समाधिसुप्तयोर्ज्ञानं चाज्ञानं सुप्तचात्र नेष्यते । सविकल्पो निर्विकल्पः समाधिर्द्वाविमौ हृदि ॥ मुमुक्षोर्यत्नतः कार्यौ विपरीतविवृत्तये । कृतेऽस्मिन्विपरीताया भावनाया निवर्तनम् ॥
ज्ञानस्याप्रतिबद्धत्वं सदानन्दश्च सिद्धयति । दृश्यानुविद्धसंविकल्पः.
दृश्यानुविद्धशब्दानुविद्धश्चेति द्विधा मतः ॥ सविकल्पस्तयोर्यत्तत् लक्षणं वच्मि तच्छृणु । कामादिप्रत्ययैर्दृश्यैः संसर्गो यत्र दृश्यते ॥
सोऽयं दृश्यानुविद्धरस्यात् समाधिस्सविकल्पकः । अहंममेदमित्यादिकामक्रोधादिवृत्तयः ॥
दृश्यन्ते येन संदृष्टा दृश्यास्स्युरहमादयः । कामादिसर्ववृत्तीनां द्रष्टारमविकारिणम् ॥
८०४
८०५
८०६
८०७
८०८
८०९
८१०
८११
८१२
साक्षिणं स्वं विजानीयात् यस्ताः पश्यति निष्क्रियः । कामादीनामहं साक्षी दृश्यन्ते ते मया ततः ॥ इति साक्षितयाऽऽत्मानं जानात्यात्मनि साक्षिणम् । दृश्यं कामादि सकलं स्वात्मन्येव विलापयेत् ॥ नाहं देहो नाप्यसुनक्षवर्गो नाहङ्कारो नो मनो नापि बुद्धिः । अन्तस्तेषां चापि तद्विक्रियाणां साक्षी नित्यः प्रत्यगेवाहमस्मि ॥ ८१४
८१३
Loading... Page Navigation 1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230