Book Title: Shankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore

View full book text
Previous | Next

Page 213
________________ ८५२ निरन्तरम् । २०. सर्ववेदान्तासवान्तसारसंग्रहः. प्रसगभिन्नमखण्डं ससज्ञानादिलक्षणं शुद्धम् । श्रुसवगम्यं तत्थ्यं ब्रह्मैवाहं परं ज्योतिः ॥ एवंसन्मात्रगाहिन्या वृत्त्या तन्मात्रगाहकैः । शब्दैस्समर्पितं वस्तु भावयेन्निश्चलो यतिः ।। ८५० कामादिदृश्यप्रविलापपूर्वकं शुद्धोऽहमिसादिकशब्दमिश्रः । दृश्येव निष्ठस्य य एष भावः शब्दानुविद्धः कथितस्समाधिः।। ८५१ निर्विकल्पसमाधिः. दृश्यस्यापि च साक्षित्वात् समुल्लेखनमात्मनि । निवर्तकमनोऽवस्था निर्विकल्प इतीर्यते ॥ सविकल्पसमाधि यो दीर्घकालं निरन्तरम् । संस्कारपूर्वकं कुर्यात् निर्विकल्पोऽस्य सिद्धयति ॥ . ८५३ निर्विकल्पकसमाधिनिष्ठया तिष्ठतो भवति नियतः ध्रुवम् । उद्भवाद्यपगतिर्निरगळा नियनिश्चलनिरन्तनिर्वृतिः ॥ ८५४ विद्वानहमिदमिति वा किञ्चित् बाह्याभ्यन्तरवेदनशून्यः।। स्वानन्दामृतसिन्धुनिमग्नः तूष्णीमास्ते कश्चिदनन्यः ॥ ८५५ निर्विकल्पं परं ब्रह्म यत्तस्मिन्नेव निष्ठिताः । एते धन्या एव मुक्ताः जीवन्तोऽपि बहिर्देशाम् ॥ ८५६ . बाह्यसमाधिप्रकारः, यथा समाधित्रितयं यत्नेन क्रियते हृदि । तथैव बाह्यदेशेऽपि कार्य द्वैतनिवृत्तये ॥ तत्प्रकारे प्रवक्ष्यामि निशामय समासतः । अधिष्ठानं परं ब्रह्म सच्चिदानन्दलक्षणम् ॥ तत्राध्यस्तमिदं भाति नामरूपात्मकं जगत् । सत्त्वं चित्त्वं तथाऽऽनन्दरूपं यद्ब्रह्मणस्वयम् ॥

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230