Book Title: Shankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text ________________
सर्ववेदान्तसिद्धान्तसारसंग्रहः. अध्यस्तजगतो रूपं नामरूपमिदं द्वयम् । एतानि सच्चिदानन्दनामरूपाणि पञ्च च ॥ एकीकृसोच्यते मूखैः इदं विश्वमिति भ्रमात् । श्वैसं शैवं रसं दीर्घ तरङ्ग इति नाम च ॥ एकीकृस तरङ्गोऽयं इति निर्दिश्यते यथा । आरोपिते नामरूपे उपेक्ष्य ब्रह्मणस्सतः ॥ स्वरूपमात्रग्रहणं समाधिर्बाह्य आदिमः । सच्चिदानन्दरूपस्य सकाशाद्ब्रह्मणो यतिः ॥ . नामरूपे पृथक्कृस ब्रह्मण्येव विलापयन् । अधिष्ठानं परं ब्रह्म सच्चिदानन्दमद्वयम् । यत्तदेवाहमिसेव निश्चितात्मा भघेडुवम् ॥ इयं भून सन्नापि तोयं न तेजो न वायुन खं नापि तत्कार्यजातम् । यदेषामधिष्ठानभूतं विशुद्धं तदेकं परं सत्तदेवाहमस्मि ॥ ८६५ न शब्दोन रूपं नचस्पर्शको वा तथा नो रसो नापिगन्धो न चान्यः। यदेषामधिष्ठानभूतं विशुद्धं तदेकं परं सत्तदेवाहमस्मि ॥ ८६६ न देहो न चाक्षाणि न प्राणवायुः मनो नापि बुद्धिर्न चित्तं ह्यहंधीः । यदेषामधिष्ठानभूतं विशुद्धं तदेकं परं सत्तदेवाहमस्मि ॥ ८६७ नदेशोन कालोन दिग्वापिसस्यात्नवस्त्वन्तरंस्थूलसूक्ष्मादिरूपम् यदेषामधिष्ठानभूतं विशुद्धं तदेकं परं सत्तदेवाहमस्मि ॥ ८६८ एतदृश्यं नामरूपात्मकं योऽधिष्ठानं तद्ब्रह्म ससं सदोति । गच्छंस्तिष्ठन्वा शयानोऽपि निसं कुर्याद्विद्वान् बाह्यशब्दानुविद्धम् ॥ अध्यस्तनामरूपादिपविलापेन निर्मलम् । अद्वैतं परमानन्दं ब्रह्मैवास्मीति भावयेत् ॥
iv-26
Loading... Page Navigation 1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230