Book Title: Shankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore

View full book text
Previous | Next

Page 207
________________ ७८३ ७८४ ७८५ ७८६ ७८७ सर्ववेदान्तसिद्धान्तसारसंग्रह तत्तेजसाऽभिभूतं सत् लीनोपाधितया ततः ॥ बिम्बभूतपरब्रह्ममात्रं भवात केवलम् । यथाऽपनीते त्वादर्श प्रतिविम्बमुखं स्वयम् ॥ मुखमात्रं भवेत्तद्वत् एतच्चोपाधिसंक्षयात् । घटाज्ञाने यथा वृत्त्या व्याप्तया बाधिते सति ॥ घटं विस्फुरयसेष चिदाभासस्स्वतेजसा । . न तथा स्वप्रमे ब्रह्मण्याभास उपयुज्यते ॥ अत एव मतं वृत्तिव्याप्यत्वं वस्तुनस्सताम् । न फलव्याप्यता तेन न विरोधः परस्परम् ॥ श्रुसोदितस्ततो ब्रह्म ज्ञेयं बुद्धयैव सूक्ष्मया । प्रज्ञामान्धं भवेदेषां तेषां न श्रुतिमात्रतः ॥ . स्वादखण्डाकारवृत्तिः विना तु मननादिना । ... श्रवणादिनिरूपणम्. श्रवणान्मननादयानात् तात्पर्येण निरन्तरम् ॥ बुद्धेस्सूक्ष्मत्वमायाति ततो वस्तूपलभ्यते । मन्दप्रज्ञावतां तस्मात् करणीयं पुनःपुनः॥ श्रवणं मननं ध्यानं सम्यग्वस्तूपलब्धये । सर्ववेदान्तवाक्यानां षनिलिङ्गैस्सदद्वये ॥ परे ब्रह्मणि तात्पर्यनिश्चयं श्रवणं विदुः । श्रुतस्यैवाद्वितीयस्य वस्तुनः प्रसगात्मनः ॥ वेदान्तवाक्यानुगुणयुक्तिभिस्त्वनुचिन्तनम् । मननं तच्छ्रतार्थस्य साक्षात्करणकारणम् ॥ विजातीयशरीरादिप्रसयसागपूर्वकम् ।

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230