Book Title: Shankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text ________________
सर्ववेदान्तासेखान्तसारसभह:.
तस्मात्त्वमभयं नियं केवलानन्दलक्षणम् ।
निष्कलं निष्क्रियं शान्तं ब्रह्मैवासि सदाऽव्ययम् ॥ ७६३ ज्ञातृज्ञानज्ञेयविहीनं ज्ञातुरभिन्नं ज्ञानमखण्डम् ।
ज्ञेयाज्ञेयत्वादिविमुक्तं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥ ७६४ अन्तः प्रज्ञत्वादिविकल्पैः अस्पृष्टं यत्तदृशिमात्रम् । सत्तामात्रं समरसमेकं शुद्धं बुद्धं तत्वमसि त्वम् ॥ ७६५ सर्वाकारं सर्वमसर्व सर्वनिषेधावधिभूतम् ।
यत्तत्सतं शाश्वतमेकमनन्तं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥७६६ निसानन्दाखण्डैकरसं निष्कलमक्रियमस्तविकारम् ।
प्रसगभिन्नं परमव्यक्तं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥ त्वं प्रस्ताशेषविशेषं व्योमेवान्तर्बहिरंप पूर्णम् । ब्रह्मानन्दं परमद्वैतं नियं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥ ७६८ ब्रह्मैवामहं ब्रह्म निर्गुणं निर्विकल्पकम् ।
इसेवाखण्डया वृत्त्या तिष्ठ ब्रह्मणि निष्क्रिये ॥ अखण्डामेवैतां घटितपरमानन्दलहरीं
१९२
परिध्वस्तद्वैतममितिममलां वृत्तिमनिशम् । अमुञ्चानस्स्वात्मन्यनुपमसुखे ब्रह्मणि परे
रमस्व प्रारब्धं क्षपय सुखवृत्त्या त्वमनया ॥ ब्रह्मानन्द रसास्वादतत्परेणैव चेतसा । समाधिनिष्ठितो भूत्वा तिष्ठ विद्वन्महामुने ॥ शिष्यः
अखण्डाख्या वृत्तिरेषां वाक्यार्थश्रुतिमात्रतः । श्रोतुस्संजायते किंवा क्रियान्तरमपेक्षते || समाधिः कः कतिविधः तत्सिद्धेः किमु साधनम् ।
७६७
७६९
७७०
७७१
७७२
Loading... Page Navigation 1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230