Book Title: Shankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore

View full book text
Previous | Next

Page 204
________________ ७५६ सर्ववेदान्तसिद्धान्तसारसंग्रहः. १९१ तवैष देहो जनितस्स एव समेधते नश्यति कर्मयोगात् । त्वमेतदीयास्वखिलास्ववस्थास्ववस्थितस्साक्ष्यसि बोधमात्रः ॥ यत्स्वप्रकाशमखिलात्मकमासुषुप्तेः एकात्मनाऽहमहमित्यवभाति नित्यम् । बुद्धेस्समस्तविकृतेरविकारि बोड़ . यद्बह्म तत्त्वमसि केवलबोधमात्रम् ॥ स्वात्मन्यनस्तमयविदि कल्पितस्य __व्योमादिसर्वजगतः प्रददाति सत्ताम् । स्फूर्ति स्वकीयमहसा वितनोति साक्षात् __यद्ब्रह्म तत्त्वमसि केवलवोधमात्रम् ॥ सम्यक्समाधिनिरतैविमलान्तरङ्गे . साक्षादवेक्ष्य निजतत्त्वमपारसौख्यम् । संतुष्यते परमहंसकुलैरजस्त्रं . यद्ब्रह्म तत्त्वमसि केवलबोधमात्रम् ॥ ७६७ अन्तर्बहिस्स्वयमखण्डितमेकरूपं आरोपितार्थवदुदञ्चति मूढबुद्धेः । मृत्स्नादिवद्विगतविक्रियात्मवेद्यं यद्ब्रह्म तत्त्वमसि केवलबोधमात्रम्॥ श्रुत्युक्तमव्ययमनन्तमनादिमध्यं अव्यक्तमक्षरमनाश्रयमप्रमेयम् । आनन्दसद्धनमनामयमद्वितीयं यद्ब्रह्म तत्त्वमसि केवलबोधमात्रम् ॥ शरीरतद्योगतदीयधर्माचारोपणं भ्रान्तिवशात्त्वयीदम् । न वस्तुतः किञ्चिदतस्त्वजस्त्वं मृसोभयं कास्ति ततोसि पूर्णः ॥ यद्यदृष्टं भ्रान्तिमसा स्वदृष्ट्या तत्तत्सम्यग्वस्तुदृष्टया त्वमेव । त्वत्तो नान्यद्वस्तु किश्चित्तु लोके कस्मागीतिस्ते भवेदद्वयस्य ॥ पश्यतस्त्वहमेवेदं सर्वमिसात्मनाऽखिलम् । भयं स्याद्विदुषः कस्मात् स्वस्मान्न भयामिष्यते ॥ ७६२

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230