Book Title: Shankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore

View full book text
Previous | Next

Page 202
________________ १८५ सर्ववेदान्तसिदान्तसारसंग्रहः. अविरुद्धं देवदत्तदेहमात्रं स्वलक्षणम् ॥ भागलक्षणया सम्यक् लक्षयसनया यथा । तथा तत्त्वमसीसत्र वाक्यं वाक्यार्थ एव वा ॥ परोक्षत्वापरोक्षत्वादिविशिष्टचितोयोः । एकत्वरूपवाक्यार्थविरुद्धांशमुपस्थितम् ॥ परोक्षत्वापरोक्षत्वसर्वज्ञत्वादिलक्षणम् । बुद्धयादिस्थूलपर्यन्तं आविद्यकमनात्मकम् ॥ परिसज्याविरुद्धांशं शुद्धचैतन्यलक्षणम् । वस्तुकेवलसन्मानं निर्विकल्पं निरञ्जनम् ॥ लक्षयसनया सम्यक् भागलक्षणया ततः । अखण्डार्थः. ७३८ ७४० सर्वोपाधिविनिर्मुक्तं सच्चिदानन्दभद्वयम् ॥ निर्विशेषं निराभासं अतादृशमनीदृशम् ।। ऑनर्देश्यमनाद्यन्तं अनन्तं शान्तमच्युतम् ॥ अप्रतय॑मविज्ञेयं निर्गुणं ब्रह्म शिष्यते । उपाधिवैशिष्टयकृतो विरोधो ब्रह्मात्मनोरेकतयाधिगत्या । उपाधिवैशिष्टय उदस्यमाने न कश्चिदप्यस्ति विरोध एतयोः ॥ तयोरुपाधिश्च विशिष्टता च तद्धर्मभाक्त्वं च विलक्षणत्वम् । भ्रान्सा कृतं सर्वमिदं पृषैव स्वप्नार्थवज्जाग्रति नैव सखम् ॥ ७४२ निद्रासूतशरीरधर्ममुखदुःखादिप्रपञ्चोऽपि वा __ जीवेशादिभिदाऽपि वा न च ऋतं कर्तुं कचिच्छक्यते । मायाकल्पितदेशकालजगदीशादिभ्रमस्तादृशः को भेदोऽस्त्यनयोयोस्तु कतमस्सत्योऽन्यतः को भवेत् ॥७४३

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230